________________
४५८
प्रमाणवार्तिकस्ववृत्तिटीका (१।२४६) भवतु सर्वेषामपौरुषेयत्वमिति चेत् (1) तादृशेऽपौरुषेयत्वे कः सिद्धेपि गुणो भवेत् ।
काममविसम्वादकमित्यपौरुषेयत्वमिष्टं। तद्विसम्वादकानामपि केषाञ्चिदनादित्वादस्तीति किमपौरुषेयत्वेन।
(ख) अनादित्वेऽर्थसंस्कारभेदेन संशयः सति वा वेदवाक्यानामेवापौरुषेयत्वे। अर्थसंस्कारभेदानां दर्शनात्संशयः पुनः ॥२४९॥ यद्यपौरुषेयत्वेपि प्रतिनियतामेव तदर्थप्रतिभां जनयेदाश्वासनं स्याद् (1)
तेष्वदृष्टा व्यवहाराः इष्यन्ते। न हि तैः पूर्वेभ्यो व्यवहारा उपलब्धास्तेषामेव प्रथमत्वात्।
तेषामपीत्यादिना परिहरति। तेषामप्यादिकल्पिकानाम्पुंसामन्यसंस्काराहितानां पूर्वजन्मप्रसरेषु पूर्वदृष्टव्यवहारेणाहितसंस्काराणां पश्चाद् यथाप्रत्यययं । यथा सहकारिसन्निधानं प्रबोधात् प्रवृत्तेः। तेपि नापरपूर्वकाः। (२४८ a.b.)
भवत्वनादित्वात् सर्वेषां म्लेच्छादिव्यवहाराणामपौरुषेयत्वमिति चेत् । तावृशेनादित्वमात्रेण सर्वव्यवहाराणामपौरुषेयत्वे सिद्धेपि को गुणो भवेत् (1) नैव कश्चित् । तथा हि कामं भवेदविसम्वादकमित्यपौरुषेयत्वमिष्टं। तच्चापौरुषेयत्वं विसम्वादकानामपि केषांचिल्लोकव्यवहारणामस्तीति नापौरुषेयत्वमवितथत्वस्य साधकं व्यभिचारादिति किन्तेनापौरुषेयत्वेन कल्पितेन । ___ अर्थ वेदवाक्यानामेवापौरुषेयत्वमिष्यते । तदा वेदवाक्यानामेवापौरुषेयत्वे सत्यपि तद्वाच्येष्वर्थेषु संशय एव पुनरिति भूयः । अपौरुषेयत्वमपि कल्पयित्वा भूयः संशय एव प्राप्त इत्यर्थः । किं कारणम् (1) अर्थभेदानां वेदार्थव्याख्यानविकल्पानामाचार्यभेदेन दर्शनात्।
यदीत्यादिना व्याचष्टे ।
अपौरुषेयत्वेपि यदि वेदवाक्यं यथा स्वं प्रतिनियतामेव। तदर्थप्रतिभा । वेदवाच्यार्थालम्बनाम्बुद्धिप्रवृत्तिकामस्य यदि जनयेत्तदा विपरीतार्थसमारोपाभावादाश्वासनं स्याल्लब्धाश्वासः पुरुषो भवेत्। तत्तु नास्ति । यस्माद् । यथेष्टन्तु समारोपापवादाभ्यामधिकशब्दप्रक्षेपेण शब्दान्तरापह्नवेन वेत्यर्थः। विरुदशास्त्रव्यवहारिणो नै रक्ताः । आविशब्दाद् वै या क र णा दिपरिग्रहः । बेदवाक्यानि विशसन्तो नानार्थान् कुर्वन्तो दृश्यन्ते । न च ते परस्परविरोधिनो व्याख्याभेदोपनीता अर्थास्तेषाम्वेदवाक्यानान्न संघटन्त एव सम्भवन्त्येवेत्यर्थः ।