SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ७. अपौरुषेय-चिन्ता ४५७ नास्तिक्यवचांसि चापूर्वप'रलोकाद्यपवादीनि । .. न हि तान्यनाहितसंस्कारैः परैः प्रवर्त्तयंति। स्वप्रतिभारचितसमयानामपि यथाश्रुतार्थविकल्पसंहारेणेव प्रवृत्तेः। तत्किंचित् कुतश्चिदागतमित्येकस्योपदेष्टुः प्रबन्धेनाभावात् अपरपूर्वकमित्युच्यते। प्रागेव यथादर्शनप्रवृत्तयः सम्यग्मिथ्याप्रवृत्तयो लोकव्यवहाराः। नन्वादिकल्पिकेष्वदृष्ट (1) एव व्यवहाराः पश्चात् प्रवृत्ता इष्यन्ते। न (1) तेषामप्यन्यसंस्काराहि तानां यथाप्रत्ययम्प्रबोधात् । ति का नाम्वचांसि च। किंभूतान्यपूर्वपरलोका द्यपवादीनि। अपूर्वस्य धर्माधमस्य परलोकस्य चापवादीनि प्रतिक्षेपकाणि। तान्यप्यनादीनीति। लिंगविपरिणामेन सम्बन्धः । (२४८) ___ कथं पुनर्लेच्छादिव्यवहारादीनामनादित्वमित्याह। न हीत्यादि। ते च व्यवहारास्तानि च नास्तिक्यवचांसीति “नपुंसकमनपुंसकेनैकवच्चान्यतरस्यामि"पति नपुंसकस्यैकशेषः। तेनायमर्थः (1) तान् व्यवहारां स्तानि च नास्तिक्यवचांसि परैरन्यैः पुरुषैरनाहितसंस्कारा अव्युत्पन्नबुद्धय इदानीन्तना न प्रवर्त्तयन्ति । किन्तु व्युत्पादितबुद्धय एव। तेप्यपरस्तेप्यपरैरिति सिद्धमनादित्वं ।। ___येप्यपूर्व काव्यादिकं कुर्वन्ति। तेषामप्यन्यकृतेनैव संस्कारेण प्रवृत्तेस्तत्कृतोपि व्यवहारोनादिरिति कथयन्नाह। स्वप्रतिभेत्यादि। स्वप्रतिभया स्वबुद्ध्या रचितस्समयः काव्यादिलक्षणो यैस्तेषामपि तावत् पुरुषाणां यथाश्रुतः परस्मात् समस्तो व्यस्तो वा योर्थः। तत्र ये विकल्पास्तेषां संहार एकत्रोपादानम्वर्गीकरणमिति यावत्। तेनैव प्रकारेण प्रवृत्तेर्ग्रन्थादीनां करणात्। स्वप्रतिभारचितोपि ग्रन्थो वस्तुतः परपूर्वक एव। कथन्तर्हि स्वकृत इत्युच्यते इत्याह। तत्काव्यादिकमपरपूर्वक मित्युच्यत इति सम्बन्धः। केनचित् स्वयं कृतमित्युच्यते । किं कारणं (1) कुतश्चिदुपदेष्टुः किञ्चिदर्थजातमागतमिति कृत्वा। एकस्योपदेष्टः प्रबन्धेनाभावात् । तदेवं स्वप्रतिभारचितोपि तावद् ग्रन्थः परमार्थतः परपूर्वक एव। प्रागेव किम्पुनर्यथावर्शनप्रवृत्तयः। परेभ्यो यथादर्शनमेव प्रवृत्तिनिवृत्तिर्येषां ते तथोक्ताः'। 163b सम्यग्मिथ्याप्रवृत्तयः। सम्यग् मिथ्या च प्रवृत्तिराचरणं येषां लोकव्यवहाराणान्ते तथोक्ताः। तत्र सम्यक्प्रवृत्तयः पूज्यपूजादयः। मिथ्याप्रवृत्तयः कामोपसंहितादयः। एते च स्फुटमेव परपूर्वकाः । अत्र व्यभिचारमाशंकते। नन्वित्यादि। प्रथमकल्पे भवा आदिकल्पिकाः। 1 Panini 1.2.69 ५८
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy