________________
४५६
प्रमाणवात्तिकस्ववृत्तिटीका (१।२४८) ___ अपि स्युरपौरुषेया यदि पुरुषाणामादिः स्यात् । तदाऽपि अन्यपूर्वकं न
सिध्यति । अध्यापयितुरभावात् ।' 34a . तत्प्रथमोध्येता कर्तव स्यात । तदयमनादिः पूर्वप्रदर्शनप्रवृत्तो डिम्भकपांसुक्रीडादिवत् पुरुषव्यवहार इति स्यान्नापौरुषेय एव।
अनादित्वादपौरुषेयत्वे बहुतरमिदानीमपौरुषेयं। तथा च । म्लेच्छादिव्यवहाराणां नास्तिक्यवचसामपि । अनादित्वात् तथाभावः पूर्वसंस्कारसन्ततेः ॥२४८॥ म्लेच्छव्यवहारा अपि केचित् मातृविवाहादयो मदनोत्सवादयश्चानादयः।
शब्दा ध्वनियन्ति । स्वरूपं प्रकाशयन्ति । येन स्वयं ध्वननेनापौरुषेयाः स्युः। किन्तु पुरुषव्यापारेणैषां वैदिकानां शब्दानां ध्वननाल्लौकिकवाक्यवत् पौरुषेयत्वमेव। ____ अपि स्युरपौरुषेयास्सम्भाव्यत एषामपौरुषेयत्वं यदि पुरुषाणामादिः स्यात् । अध्ययनं चानादिस्तदाप्याद्यस्य पुरुषस्याध्ययनमन्यपूर्वकमध्ययनान्तरपूर्वकं न सिध्यति। किङ्कारणम् (1) अध्यापयितुरन्यस्य पुरुषस्याभावात्। तत्प्रथमोध्येता तस्य वेदस्य प्रथमोध्येता स्वयमभ्यह्य वेदमधीत इति कर्तव स्याद वेदस्य। तदिति तस्मादयं वेदाध्ययनलक्षणो व्यवहार एकस्मादधीत्यापरमध्या
पयति । सोप्यन्यमिति पूर्वपूर्वदर्शनप्रवृत्तोनादिः पुरुषव्यवहार इति पुरुषैरेवायं 163a रचितो व्यवहार इति स्यान्नापौरुषेय एव। किमिव (1) डिम्भकपांसुक्रीडा
वत्। डिम्भका बालास्तेषां पांसुक्रीडा यथा पूर्ववत्दर्शनप्रवृत्तत्वादनादिः पुरुषव्यवहारस्तद्वत् । आदिशब्दाद् भोजनादिव्यवहारः । ____ अनादित्वादित्यादि। अनावित्वाद् वेदस्यापौरुषेयत्वेभ्युपगम्यमाने म्ले च्छा दिव्यवहाराणामिति स्वकुलक्रमागतानां मातृविवाहादिलक्षणानामनादित्वात् तथाभावो वेद वदपौरुषेयत्वं स्यात् । आदिशब्दादार्यव्यवहारस्यानादेः परिग्रहः । तथा नास्तिक्यवचसामपि धर्माधर्मपरलोकापवादप्रवृत्तानामनादित्वात्तथाभावः । अपौरुषेयत्वं स्यात् । अनादित्वमेव तेषां कथमिति चेदाह। पूर्वसंस्कारसन्ततः पूर्वसंस्कारवशात् सन्तानेन प्रवृत्तेरित्यर्थः। म्लेच्छव्यवहारा अनादयः । के पुनस्त इत्याह। मृते पितरि पुत्रेण मातृविवाहः कार्य इति। म्लेच्छानां केषांचिद् व्यवहारः। आदिशब्दाद् वृद्धानाम्मारणं संसारमोचनार्थमित्यादिव्यवहार- . परिग्रहः। आदिशब्दोपात्तमाह। मदनेत्यादि। मदन त्र यो दश्याम्पर्वणि मदनोत्सवः। अत्राप्यादिशब्दात् पुत्रजन्मोत्सवादयोप्यनादयः। नास्तिकाना लौ का य
1 Restored.