SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ७. अपौरुषेय - चिन्ता -४५५ सिध्यति । सर्वस्य तथाभावासिद्धेः । यादृशं तु तन्निमित्तं दृष्टं तत्तथैवेति स्यात् । तनिमित्ततया दृष्टे विशेषे तत्त्यागेन सामान्यग्रहणं हि हुताशनसिद्धौ पाण्डुद्रव्यवद् व्यभिचार्येव । एतेन रागादिसाधने वचनादयः प्रत्युक्ताः । श्रस्तु वाध्ययनं एतदध्ययनपूर्वकम् । सर्वथानादितः सिद्ध्येदेवं नापुरुषाश्रयः । तस्मादपौरुषेयत्वे स्यादन्यो (यनरा ) श्रयः ॥ २४७॥ पुरुष एव हि स्वयं प्रभ्यू' अधीयते परतो वा । तेषामव्यापृतकरणानां 497b स्वयं शब्दा न ध्वनयन्ति, येन अपौरुषेयाः स्युः । विशेषितेपि हेतौ व्याप्तिनं सिध्यति । विपर्यये बाधकप्रमाणाभावेन सर्वस्य वेदाध्ययनस्य तथाभावसिद्धेरध्ययनान्तरपूर्वकत्वासिद्धेः । यादृशं त्वध्ययनं स्वयंकर्त्तुमशक्तस्य तनिमित्तमध्ययनान्तरनिमित्तं दृष्टं तत्तथेत्यध्ययनान्तरपूर्वकमेवेति स्यात् । स्वयं कृत्वाध्येतुमशक्तस्य यदध्ययनन्तस्य दृष्टे विशेषजाड्यादिलक्षणे तन्निमित्ततया परपूर्वाध्ययननिमित्ततया । तत्त्यागेन तस्य जाड्यादिनिमित्तस्याध्ययनस्य यथा परिदृष्टे विशेषस्य त्यागेन । यद्वा तन्निमित्ततया शक्तिनिमित्ततया । दृष्टेऽवगते विशेषेस्वयं कृत्वाध्ययनलक्षणे तत्त्यागेन तस्य विशेषस्य त्यागेन वेदाध्ययनत्वसामान्यस्य ग्रहणं शक्तस्याशक्तस्य वा सर्वं वेदाध्ययनमध्ययनान्तरपूर्वकम्वेदाध्ययनत्वसामान्यादिति क्रियमाणं व्यभिचार्येव । किमिव (1) हुताशनसिद्धौ । अग्निसिद्धी पाण्डुद्रव्यत्ववत् | अग्निसाध्ये धूमे यः पाण्डुविशेषो दृष्टस्तत्त्यागेन पाण्डुद्रव्यसामान्यमुपादीयमानमग्निसिद्धौ यथा व्यभिचारि तद्वदित्यर्थः । एतेनानन्तरोक्तेन व्यभिचारित्वप्रतिपादनेन वचनादयः । आदिशब्दात् पुरुषत्वादयः प्रत्युक्ताः । यथा तेपि व्यभिचारिण इति । कस्मिन् साध्ये (1) रागादिसाधने । रागादिसिद्धौ । यादृशो रागादिप्रभवो वचनविशेषो दृष्टस्तत्त्यागेन वक्तृत्वसामान्यस्य व्यभिचारात् । अस्तु वेत्यभ्युपगम्याप्याह । सर्वथाप्येवंकृत्वा वेदस्यानादिता सिध्ये दादिरहितत्वमात्रं सिध्येत् । नापुरुषाश्रयः । अपौरुषेयत्वन्तु न सिध्येत् । अथ तस्मादपौरुषेयमात्रादेवापौरुषेयत्वमिष्यते । तदा स्यादन्योपि लोकव्यवहारोनादिप्रवृत्तत्वादनराश्रयो पौरुषेयः । पुरुष एव हि स्वयमभ्युद्योपकल्प्याधीयते । परतो वा श्रुत्वाधीयते तेषां पुंसामव्यापतकरणानामव्यापृतताल्वादीनां स्वयं
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy