SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ 497a ४५४ . प्रमाणवात्तिकस्ववृत्तिटीका (१।२४६) सतामपि कार्यस्यानारम्भसम्भवात्, स्वभावविप्रकर्षेण द्रष्टुमशक्यत्वाच्च ।' तस्मादध्ययन अध्ययनान्तरपूर्वकमिति अध्ययनादिति व्यभिचारि। भारताध्ययने भावात्। वेदेन विशेषणाददोष इति चेत् । कः पुनरतिशयो वेदाध्ययनस्य, येन अन्यथाऽध्ययनं न शक्यते ? न हि विशेषणं अविरुद्धं विपक्षेण सह अस्माद्धेतुं निवर्तयति । अविरुद्धयोरेकत्र सम्भवात् । इदानीन्तनानां अनध्ययनादिति चेत् । उक्तोत्तरमेतत् । प्रदर्शनादिति चेत्। इदमपि प्राक् प्रत्यढम् । नाप्यदर्शनमात्रमभावं गमयतीति व्यभिचार एव। तस्माद् विशेषणं अतिशयभाग् न भवतीति अनुपात्तसमम् । यत् किञ्चिद् वेदाध्ययनं सर्वं तद् वेदाध्ययनान्तरपूर्वकमिति व्याप्तिन कर्षणामीषामिदं कार्यमिति द्रष्टुमशक्यत्वाच्च । तस्मान्मन्त्रक्रियासाधनवैकल्यं यथैकस्य तथा सर्वस्येत्येतदशक्यनिश्चयमिति स्थितं । यत एवन्तस्मादध्ययनमध्ययनान्तरवद् अध्ययनान्तरपूर्वकमिति साध्ये अध्ययनादिति लिङ्गं व्यभिचारि। भा र ता द्यध्ययने पौरुषेयाध्ययनत्वस्य भावात् । वेदेन विशेषणाददोषः। अध्ययनमात्रस्य हि व्यभिचारो न वेदेन विशिष्टस्याध्ययननस्येत्यभिप्रायः। कः पुनरित्यादि सिद्धान्तवादी। कोतिशयो वेदाध्ययनस्य येन तद्वेदाध्ययनमन्यथेति स्वयं कृत्वाध्यतुं न शक्यते। नैव कश्चिदतिशयः (1) ततो वेदाध्ययनं च स्यान्न चाध्ययनपूर्वकमिति विरोधाभावात् स एव व्यभिचारः। यस्मान्न हि विशेषणं वेदत्वमविरुद्धं विपक्षणानध्ययनान्तरपूर्वकत्वेन सह । अस्माद् विपक्षाद्धेतुन्निवर्तयति । कि कारणं। अविरुद्धयोर्वेदत्वानध्ययनान्तरपूर्वकत्वयोरेकत्र वेदवाक्ये सम्भवात् । को पत्र विरोधो यद् वेदाध्ययनं च स्यान्न चाध्ययनान्तरपूर्वकमिति। इदानीन्तनानां पुरुषाणामनध्ययनात् । अध्ययनान्तरपूर्वकत्वेनैवाध्ययनात् । उक्तोत्तरमेतत् । भा र ता ध्ययनेपि प्रसङ्गात् । तदपि हीदानीन्तनाः परोपदेशेनैवाधीयत इति। तस्याप्याद्याभिमतमध्ययनमध्ययनान्तरपूर्वकत्वेन वेदवदपौरुषेयं स्यात् । वेदाध्ययनपूर्वकमेव वेदाध्ययनं कर्तुरदर्शनादिति चेत् । इदमपि प्राक् प्रत्यूढं प्रतिक्षिप्तं। दृश्यन्ते हि विच्छिन्नक्रियासंप्रदायाः। कृतकाश्चेत्यादिना। नाप्यदर्शनमात्रमभावं गमयतीति कृत्वा व्यभिचार एव वेदाध्ययनत्वादित्यस्य हेतोः। तस्मात् वेदत्वं विशेषण162b मध्ययनस्य हेतोरतिशय भाग न भवति विशेषाधायकन्न भवति। विपक्षविरो धाभावेन विपक्षादव्यावर्त्तनात। उपात्तमपि विशेषणमनुपात्तसमं । किञ्च। यत्किञ्चिद वेदाध्ययनं सर्वन्तदध्ययनान्तरपर्वकमिति -वेदेन
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy