SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ७. अपौरुषेय-चिन्ता ४५३ तत्साधनसम्प्रदायभेदवद् गुणान्तरसाधनान्यपि स्युः । नापि सन्नपि सर्वैद्रष्टुं शक्यः । अत एव अदृष्टस्य अनपह्नवः । नापि पुरुषेषु कस्यचिदपि उत्पित्सोमनोगुणस्य प्रतिरोद्धाऽस्ति। बाध्यस्यादृष्टे: बाध्यबाधकभावासिद्धेः। एतेन सर्वज्ञादिप्रतिषेधादयो निर्वणितोत्तराः। तत्रापि अतत्साधनसम्प्रदायोऽयं कथमिव अन्येषामपि तथाभावो एवंभतो नेति न न्याय्यः। नादृष्टज्ञापक इत्यपि। सन्तानभाविन्यो भवन्ति । येन ता आत्मनि न दृष्टा इत्यन्यत्रापि प्रतिक्षिप्येरन् । इदानीं स्मृत्यादीनां क्वचिदेव पुरुषे सम्भवमाह। तत्साधनमित्यादि। तेषां स्मृत्यादीनां यथोक्तानां यत्साधनमुत्पत्तिकारणन्तस्य संप्रदाय उपदेशस्तस्य भेदो विशेषः क्वचिदेवागमे सम्भवो न सर्वत्र । तद्वद् गुणान्तरसाधनान्यपि स्युः। क्वचिदेव पुरुष भवेयुः। सिद्धिः साधनं। स्मृत्यादिकारणानां कार्यभूतानि यानि गुणान्तराणि स्मृत्यादिरूपाणि। तेषां साधनानि निष्पत्तयोपि क्वचिदेव पुरुषे स्युः स्मृत्यादिकारणानुष्ठानात्। यदि स्मृत्यादि साधनं स्यात् किन्न दृश्यत इति चेदाह। नापीत्यादि। सन्नपि विद्यमानोपि सन्तानान्तरस्थो मनोगुणो द्रष्टुं पुरुषमात्रेण न शक्यः। अत एव कारणाददृष्टस्य सन्तानान्तरस्य मनोगुणस्यानपह्नवोप्रतिक्षेपः। नापि पुरुषेष मनोगुणस्योत्पित्सोरुत्पत्तिमिच्छोः प्रतिरोद्धा बाधकोस्ति येन तदन्यगणातिशायी मनोगणः कस्यचिदपि नास्तीति स्यात। पुरुषत्वादिक एव धर्मो बाधक इति चेत् (1) न। किं कारणं। तस्यान्यसन्तानभाविनो बाध्यस्य' गुणस्य पुरुषमात्रेणादृष्टः। पुरुषत्वादिना धर्मेण बाध्यबाधकभावा- 162a सिद्धेः। अबाधकाच्चाप्रतिक्षेपः । एतेनान्तरोक्तेन सर्वस्यार्थस्य यज्ज्ञानन्तस्य प्रतिषेधः। आदिशब्दाद् वीतरागादिप्रतिषेधादयो निर्वणितोत्तराः। • यथा न वक्तृत्वादिलिंगेन सर्वज्ञत्वादीनां प्रतिक्षेप इति। तत्रापि बीतरागत्वादिप्रतिक्षेप एवंभूतः पुरुषो वीतरागत्वा दिगुणयुक्तो नेति न्यायो युक्तः । किंभूतः । यादृशोयमसम्भवन्तत्साधनसंप्रदायः। असम्भवन्तत्साधनसंप्रदायो वीतरागत्वादिसाधनसंप्रदायो यस्येति विग्रहः। वीतरागत्वादिसाधनेनोपायेन विकलस्स वीतरागादिर्न भवत्येवं न्याय इति यावत। न दष्टज्ञापकोतत्स्वभाव इत्यपि। अदष्टं ज्ञापकं वीतरागत्वादि लिङ्गं यस्य। स ज्ञापको दर्शनमात्रेणातत्स्वभावो वीतरागत्वादिगुणवियुक्तस्वभावो भवतीत्यपि न युक्तम्वक्तुं । न हि ज्ञापकानुपलम्भमाश्रेण ज्ञाप्यस्याभावो न्याय्यः। किं कारणं। सतामपि केषांचिदर्थानां लिंगभतस्य कार्यस्यानारम्भसम्भवात। आरब्धन्नाम तैरतीन्द्रियैः कार्यन्तथापि स्वभावविप्र
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy