________________
४५२ प्रमाणवात्तिकस्ववृत्तिटीका (१।२४६) वा कश्चिदपि नैव कुर्यात्, तद्वदित्यपूर्वेषा वाचो युक्तिः ! ____ सत्यम् । मन्त्रक्रियासाधनेन विकला मन्त्रान् न कुर्वते । तदेव साकल्यं कस्यचित् न पश्यामः। सर्वपुरुषाणां समानधर्मत्वात् ।
उक्तमत्र, न मन्त्रो नाम सत्त्यादिमत्प्रतिज्ञावचनात् अन्यदेव किंचित् । तानि च क्वचिदेव पुरुषेषु दृश्यन्ते। ___ सर्वपुरुषास्तद्रहिता इत्यपि अनिर्णयः, तत्सम्भवस्य विरोधाभावात् । न च प्रत्यक्षस्वभावेषु अनुपलब्धिरभावनिश्चयस्य हेतुः । न च स्मृतिमतिप्रतिवेधसत्यशक्तयः सर्वत्र भाविन्यो भवन्ति ।
अपि च काव्यानि तत्क्रियाप्रतिभायुक्तः पुरुषः करोतीति कृत्वा तत्क्रिया161b प्रतिभारहितोपि सर्वः पुरुषः पुरुषत्वसाम्यात् काव्यकृत् स्यात् । अकरणे वा
कस्यचिदन्योपि नैव कुर्यात् । तद्वत् । काव्यकरणासमर्थपुरुषवत्। इत्यपूर्वेषा वा चो युक्तिः । व्यभिचारिणीत्यर्थः ।
सत्यमित्यादि परः। मन्त्रक्रियासाधनेन विकलाः पुरुषा मन्त्रान्न कुर्वते । केवलन्तदेवात्र मन्त्रक्रियासाधनस्य सत्त्यादेः साकल्यं कस्यचित् पुरुषस्य न पश्यामः । सर्वपुरुषाणां समानधर्मत्वात्।
उक्तमिति सिद्धान्त वा दी। अत्र चोद्य उक्तमुत्तरं। किमुक्तं । न मन्त्रो नामेत्यादि। वचनं च समयश्चेति द्वन्द्वः। सत्त्यादिमतां पुरुषाणां समीहितार्थसाधनाद्वचनात् । तथा सत्त्यादियुक्तपुरुषप्रतिज्ञालक्षणाच्च समयान्न मन्त्रोनामान्यदेव किंचित् । तानि च सत्त्यतपोगतिसिद्धिविशेषलक्षणानि मन्त्रक्रियासाधनानि क्वचिदेव पुरुषेषु दृश्यन्ते। _स्यादेतद् (1) यो यः पुरुषस्य मन्त्रक्रियासाधनरहितस्तद्यथा रथ्यापुरुषः । पुरुषश्चायं मन्त्रकर्तृत्वेनाभिमतः पुरुष इति। तत्रापि सर्वपुरुषास्तद्रहितास्तेन मन्त्रक्रियासाधनेन रहिता इत्यपि तत्सम्भवस्य मन्त्रक्रियासाधनसम्भवस्य पुरुषत्वेन सह विरोधाभावात्। अनिर्णयोऽनिश्चयः। मन्त्रक्रियासाधनस्य स्वभावानुपलम्भादेव पुरुषे स्वभावनिश्चय इति चेदाह। न चेत्यादि। अत्यक्षस्वभावेषु अक्षातिक्रान्तः स्वभावो येषान्तेष्वत्यन्तपरोक्षेष्वित्यर्थः। अनुपलब्धि
भावनिश्चयस्य हेतुः। आत्मनि मन्त्रक्रियासाधनानां स्मृत्यादीनामनुपलम्भेन परत्राप्यभावो निश्चीयत इति चेदाह। न चेत्यादि। अतिक्रान्तजन्मादिस्मरणं स्मृतिः। परचित्तावबोधो म तिः। अदृष्टेषु पदार्थतत्त्वदर्शनं प्रतिवेधः। सत्यमनन्यथावा दित्वं। शक्तिः प्रभावः। ता मन्त्रहेतव: सर्वभाविन्यः। सर्वपुरुष