________________
७. अपौरुषेय - चिन्ता
४५१
तेषां क्रियासम्भवे अक्षररचनायां कः प्रतिघातः ? तस्मान्न किञ्चिदशक्य
क्रियमेषाम् ।
तौ च सत्त्यप्रभव मन्त्रकल्पौ कथं परस्परविरुद्धौ ? न वै सर्वत्र तौ सत्यप्रभवौ । प्रभावयुक्तपुरुषप्रतिज्ञालक्षणावपि स्तः । स प्रभावो गतिसिद्धिविशेषाभ्यामपि स्यात् ।
यदि पौरुषेया मन्त्रास्तदा सर्वे पुरुषाः किन्न मन्त्रकारिणः ? तत् क्रियासाधनवैकल्यात् ।
यदि पुनस्तादृशैः सत्यतपः प्रभृतिभिर्युक्ताः 7 स्युः ।
श्रपि च काव्यानि पुरुषः करोतीति सर्वः पुरुषः काव्यकृत् स्यात् । श्रकरणे
तन्न । यस्मात् तेषां मुद्रादीनां क्रियासम्भवे सत्यक्षररचनायां सत्त्यादिमतां पुंसां कः प्रतिघातो विशेषाभावात् । तस्मान्न किञ्चिदशक्यक्रियमेषां पुंसां । येन पुरुषेणाकृतमतिशयमुपलभ्य लौकिकेभ्यो वैदिकानां स्वभावभेदः कल्प्येत ।
यदि बौद्धेतरौ मन्त्रकल्पौ द्वावपि पौरुषेयो तौ च सत्त्यप्रभवौ । अवितथाभिधायिपुरुषादुत्पन्नौ । तत्कथमिदानीन्तावेव सत्त्यप्रभवो मन्त्रकल्पौ बौद्धेतरौपरस्परविरुद्ध युज्येते । एकत्र हिंसादीनामनभ्युदयहेतुत्वेन दर्शनादन्यत्राभ्युदहेतुत्वेन ।
नेत्यादिना परिहरति । न वै सर्वत्र तौ मन्त्रकल्पौ सत्त्यप्रभवो येनायं विरोधः । किन्तु प्रभावयुक्त पुरुषप्रतिज्ञालक्षणावपि तौ मन्त्रकल्पौ स्तः । प्रभाववता पुरुषेण “य इमां वर्णपदरचनामभ्यस्यति तद्विधिं चानुतिष्ठति तस्याहं यथाप्रतिज्ञातमर्थं सम्पादयिष्यामीति या प्रतिज्ञा तल्लक्षणावपि मन्त्रकल्पौ भवतः । ततोन्यथावाद्यपि प्रभावयुक्तौ मन्त्रकल्पौ कुर्यादेवेत्यविरोधः । स एव सत्त्याभावात् प्रभावः कुत इति चेदाह । स प्रभावो गतिसिद्धिविशेषाभ्यामपि स्यात् । पुण्येन गति - विशेष एव स तादृशो लब्धो देवतादिसङ्गृहीतो मन्त्रसिद्धिविशेषो येन स तादृशः प्रभावो भवतीति ।
यदि पौरुषेया मन्त्रास्तदा पुरुषत्वात् सर्वे पुरुषाः किन मन्त्रकारिणः ( 1 ) न च कुर्वन्ति । तस्मादभिमता अपि पुरुषा न मन्त्रानकार्षुरित्यभिप्रायः ।
तदित्यादि सिद्धान्त वा दी । तेषाम्मन्त्राणां यत् क्रियासाधनं सत्त्यतपःप्रभावादि तेन वैकल्यान्न सर्वे पुरुषा मन्त्रकारिणः ।
यदि पुनस्तादृशः सत्यतपः प्रभृतिभिर्मन्त्रहेतुभिः पुरुषा युक्ताः स्युस्तदा ते मन्त्रान् कुर्वन्त्येव।
496b