________________
४५० .. प्रमाणवात्तिकस्ववृत्तिटीका (१।२४६) हिंसा मैथुनात्मदर्शनादयोऽनभ्युदयहेतवोऽन्यथा वा वर्ण्यन्ते । तत् कथं विरुद्धाभिधायि द्वयमेकत्र सत्यं स्यात् ? - तत्र अर्थान्तरस्य कल्पने तद् अन्यत्रापि तुल्यम् । तथा चार्थनिश्चयात् काचिदपि व्यक्तिर्न स्यात् । तथा च अपौरुषेयत्वग्रहणमपि अनुपयोगमेव ।
- बौद्धादीनां मन्त्रत्वमेव नास्तीति चेद्, तदन्यत्रापि कोशपानं करणीयम् । विषादिकर्मकृतो बौद्धा अपि दृश्यन्ते तत्रापि मन्त्रत्वं न प्रतिषिद्धम् ।
मुद्रामंडलध्यान रनक्षरैः कर्माणि क्रियन्ते । न च तानि अपौरुषेयकल्पानि युज्यन्ते। .
दिनैतदेव बोधयति। बौद्धमन्त्रकल्पे हिंसामैथुनात्मदर्शनादयः आदिशब्दादनृत- वचनादय अनभ्युदयहेतवो दुःखहेतवो वर्ण्यन्ते। इतरस्मिस्त्वबौद्धमन्त्रकल्पे त एव हिंसादयोन्यथा चाभ्युदयहेतवो वर्ण्ययन्ते। यदि च सर्वे मन्त्रकल्पा अपौरुषेयाः स्युस्तदा चैतद् विरुद्धाभिधायि वाक्यद्वयमेकत्रापौरुषेये कथं सत्त्यं स्यात्।
स्यादेतद् (1) बौद्धमन्त्रकल्पे हिंसादिशब्दानामन्य एवाप्रसिद्धोर्थो यो वैदिकेन मन्त्रकल्पेनाविरुद्ध इति (1) अत आह। तत्रेत्यादि। तत्र बौद्ध मन्त्रकल्पे प्रसिद्धादर्थादन्यस्यार्थान्तरस्य कल्पने क्रियमाणे। तदर्थान्तर कल्पनमन्यत्राबौद्ध वैदिके मन्त्रकल्पे तुल्यमिति कृत्वा सर्वत्र मन्त्रकल्पेष्वर्थान्तरकल्पनासम्भवेनार्थानिर्णयात्। तत्प्रतिपादितेर्थे क्वचित् प्रतिपत्तिरनुष्ठानं न स्यात् । तथा चेत्यर्थानिश्चयेनानुष्ठानाभावे सदप्यपौरुषेयम्वाक्यं पुरुषार्थं प्रत्यनुपयोग।
बौद्धादीनां मन्त्रत्वमेव नास्तीति चेदाह। बौद्धादीनाममन्त्रत्व इति । 16ra तदन्यत्रापि तस्माद् बौद्धादिमन्त्रादन्यत्रापि वैदिके मन्त्रे. मन्त्रत्वप्रतिपादनाय
कोशपानं करणीयं। न हि काचिद् व्यक्तिरस्तीत्यभिप्रायः। दृष्टविरुद्धं चैतद् बौद्धादयो न मन्त्रा इति। तथा हि विषादिकर्मकृतो विषकर्मादीन् कुर्वन्तो बौद्धा अपि मन्त्रा वृश्यन्ते। तेन तत्र बौद्धादिषु मन्त्रकल्पेष्वमन्त्रत्वमपि विप्रतिषिद्धं । विषकर्मादिकरणद्वारेण वैदिकानामपि मन्त्रत्वव्यवस्थापनात । न च विषस्तम्भनादिसामर्थ्ययोगात् वेदवाक्यं लौकिवाक्यादतिशयवदित्येवापौरुषेयं युक्तं ।
तथा हि पाण्यङगुलसन्निवेशो मुद्रा। म ण्ड लं देवतादिरचनाविशेषः । ध्यानन्देवतादिरूपचिन्तनं। तैरनक्षरैरशब्दस्वभावैः स्वकर्माणि विषाद्यपनयनादिलक्षणानि क्रियन्ते। न च तानि मुद्रामण्डलध्यानान्यपौरुषेयाणि युज्यन्ते (1)
स्यादेतत् (।) मुद्रादिष्वेव पुंसां करणसामर्थ्यन्न वर्णक्रमेषु मन्त्रेष्विति।