________________
७. अपौरुषेय-चिन्ता
४४६ यदि तु तादृशीं रचनां पुरुषाः कर्तुं न शक्नुयुः, कृतां वा प्रकृतसंकेतो विवेचयेत् । तदा व्यक्तमपौरुषेयो वेदः स्यात् । । ननु पुरुषाणामेव मन्त्रकरणशक्तिः। एतदुत्तरत्र विचारयिष्यामः। अपि च, न मन्त्रो नामान्यदेव किञ्चित् । किन्तर्हि । सत्त्यतपःप्रभाववतां समीहितार्थसाधनवचनम् । तद् अद्यत्वेऽपि पुरुषेषु दृश्यत एव । यथास्वं सत्त्याधिष्ठानबलाद् विषदहनादेः स्तम्भनकरणात्। शबराणां च केषांचित् मन्त्रकरणात् । अवैदिकानाञ्च बौद्धादीनां मन्त्रकल्पानां दर्शनात् ।' तेषां च पुरुषकृतेः।। 496a
तत्रापि अपौरुषेयत्वे कथमपौरुषेयं अवितथम् ? तथा हि बौद्धतरमन्त्रकल्पे
विशेषोस्ति । न च तावता स्वयं' व्यवहारार्थ स्वप्रक्रियाभेददीपनः समयपरिकल्पितो 16ob नामभेदः संज्ञाभेदः पुरुषकृतिम्बाधते वेदस्य। किं कारणम् (1) अन्यत्रापि पुराणेऽपौरुषेयत्वप्रसंगात्। डिण्डिकेतरपुराणानां नामभेदस्य विद्यमानत्वात् । ___ यदि तु या वेदवाक्ये वर्णपदरचना दृश्यते तादृशी रचनां पुरुषाः कर्तु न शक्नुयुः। कृताम्वा निष्पादिताम्वा वर्णपदरचना मकृतसंकेतः श्रवणमात्राद् विवेचयेदियं पुरुषपूविकेति। तदा व्यक्तमपौरुषेयो वेदः स्यात् (1) न विवेचयति तां रचनान्तत्कथमपौरुषेयो वेदः स्यात् ।
नन्वित्यादि परः । म त्रा अपि पुरुषकृता एवेत्येतदुत्तरत्र विचारयिष्यामः। अपि च न मन्त्रो नामान्यदेव किञ्चित् । किन्तर्हि (1) सत्त्येत्यादि। यथाभूताख्यानं सत्त्यं। इन्द्रियमनसोर्दमनन्तपः। तयोः प्रभावो' विषस्तम्भनादिसामर्थ्य स विद्यते येषां पुंसान्ते तथा। तेषां सत्यतपःप्रभाववतां पुंसां समीहितार्थस्य साधनन्तदेव मन्त्रः। तद्वचनं मन्त्रलक्षणमद्यत्वेपि पुरुषेषु दृश्यत एव । कि कारणं । यथास्वं सत्त्याधिष्ठानबलाद् विषदहनादे (:) स्तम्भनस्य सामोपघातस्य दर्शनात्। तथा श ब राणां च केषांचित् स्वनियमस्थानामद्यापि विषाद्यपनयनशक्तियुक्तस्य कारणाच्छक्नुवन्त्येव पुरुषा मन्त्रान् कर्तुं। अवैदिकानाञ्च वेदादन्येषां बौद्धा दी नामिति (1) आदिशब्दाद् आ ह त गा रु ड मा हेश्व रा दीनां मन्त्रकल्पानां। मन्त्राणां मन्त्रकल्पानाञ्च दर्शनात् । विद्याक्षराणि मन्त्राः। तत्साधनविधानोपदेशा मन्त्रकल्पाः। तेषां च बौद्धादीना म्मन्त्रकल्पानां पुरुषकृतेः पुरुषैः करणात्।
तस्मान्न लौकिभ्यो वैदिकानां स्वभावभेदः ।।
तत्रेत्यादि परः। तत्रापि बौद्धादिमन्त्रकल्पेप्यपौरुषेयत्वे कल्प्यमाने। कथमिदानीमपौरुषेयं वाक्यं सर्वमवितथं। किन्तु मिथ्यार्थमपि स्यात् । तथा होत्या