________________
- ४४८ प्रमाणवात्तिकस्ववृत्तिटीका (१।२४६) 495b अशक्तावपि' कस्यचित् शक्तिसिद्धेः।।
तस्मात् कारणानि विवेचयता अर्थेषु तदतत्प्रतिभवेषु स्वभावभेदो दर्शनीयः । तदभावे सर्वस्तदात्मा भवेत् न वा कश्चित् ।।
न चात्र लौकिकवैदिकयोर्वाक्ययोः स्वभावनानात्वं पश्यामः। असति तस्मिन् तयोः सामान्यस्यैव दर्शनाद् एकस्य कंचिद् धर्म विवेचयन् तत्स्वभावसम्भविना आशंक्य व्यभिचारवादः क्रियते।
ननु वेदावेदयोस्तत्त्वलक्षणोऽस्ति विशेषः ?
सत्यम्। न केवलं तयोरेव । डिण्डिकपुराणेतरयोरपि अस्ति। न च तावता स्वप्रक्रियाभेददीपनो नामभेदः बाधते। अन्यत्रापि प्रसङ्गात् ।
तिशयस्य शक्तिसिद्धः। .
यत एवन्तस्मात् कारणानि विवेचयता वैदिकानां वाक्यानां ताल्वादिव्यापारं । कारणमपनयता। अर्थेषु लौकिकवैदिकेषु शब्देषु (1) किम्भूतेषु। तदतत्प्रतिभवेषु ताल्वादिकारणेष्वतत्कारणेषु स्वभावभेदो दर्शनीयः। ताल्वादिकारणानामी दृशः स्वभावो तत्कारणानामन्यादृशः स्वभाव इत्येवं स्वभावनानात्वं दर्शनीयं । येन तदतत्प्रभवत्वम्विभागेन जायते। तदभावे स्वभावभेदाभावे सर्वस्तदात्मा भवेत् । सर्वः शब्दः पौरुषेयः स्यान्न वा कश्चिल्लौकिकोपि।। .. अथ स्याद् (1) अस्त्येव तयोः स्वभावभेद इत्याह। न चात्रेत्यादि। अत्र जगति लौकिकवैदिकयोर्वाक्ययोः स्वभावनानात्वं पश्यामः । असति तस्मिन् स्वरूपभेदे तयोलौकिकवैदिकवाक्ययोस्सामान्यस्यैव तुल्यरूपस्यैव वर्णानुक्रमलक्षणस्य दर्शनादेकस्य लौकिकवैदिकस्य वाक्यस्य कंचिद् धर्म विवेचयन् पौरुषेयत्वमपौरुषेयत्वम्वा विभागेन व्यवस्थापयन् पुरुष आशंक्य व्याभिचारवादः क्रियते। आशंक्य व्यभिचारो वादो यस्य पुरुषस्य स तथोच्यते। केन क्रियते । तत्स्वभावसम्भविना तेन। लौकिकवैदिकवाक्यसम्भविना तेन वर्णपदरचनालक्षणेन सामान्येन। पौरुषेयतुल्यधर्मकस्य वेदस्यापौरुषेयत्वम्वदन व्यभिचार्यते इति यावत्। ___ ननु वेदावेदयोस्तत्त्वान्यत्त्वलक्षणो वेदावेदलक्षणो विशेषोस्त्येव । ततो विशेषाल्लौकिकवैदिकयोर्यथाक्रमं पौरुषेयत्वंमपौरुषेय त्वम्भविष्यतीति परो मन्यते।
सत्यमित्या चा र्यः। नन्वीदृशो विशेषस्तयोः पौरुषेयत्वापौरुषेयत्वसाधको यस्मान्न केवलमनयोरेव लौकिकवैदिकयोविशेषः। किन्तर्हि (1) डि ण्डि क पुराणेतरयोरपि । डि ण्डि के नंग्नाचार्यैः कृतस्य पुराणस्येतरस्य च पुराणस्य । ईदृशो