________________
७. अपौरुषेय-चिन्ता
४४७ पुरुषवत्। (अत्र) शक्त्योर्न किञ्चिद् विरोधदर्शनमस्ति तस्मान्नाविरुद्धविध्यनुपलब्धिप्रयोगो गमकः । न ह्यतीन्द्रियेषु विरोधस्य प्रतीतिरित्युक्तम् । न चायं प्रयोगः पूर्वस्माद् भिद्यते।
यदि पुरुषाः शक्ताः स्युस्तदेदानीन्तना अपि स्युरिति ।
विशेषासम्भवे सत्येतत् स्यात् । स च दुस्साध्यः । यत्र एकस्याशक्तिस्तत्र सर्वपुरुषाणामपि प्रशक्तिरित्यपि पूर्ववद् व्यभिचारि । भारतादिष्वपि इदानीन्तनानां
पुरुषातिशयसम्भवेन स्वयं कृत्वाध्ययनात् सम्भवद्विशेषं। अविशेषेण सर्वमध्ययनमध्ययनान्तरपूर्वकमित्युच्यमानं व्याप्त्यसिद्ध्या व्यभिचारित्वान्न छायां पुष्णाति। विवक्षितसाध्यासाधनात्।
कथमित्यादि परः। विशेषस्य स्वयं कृत्वा वेदबाह्यानामध्ययनस्य सम्भवः कथं। यावतेति यदेत्यर्थः। तेषामपि पुरुषाणां वेदस्य कर्तृत्वेनाभिमतानाम्वेदरचनायामशक्तिः पुरुषत्वादिदानीन्तनपुरुषवत्।
अत्रापीत्या चा र्यः। अत्रापि प्रयोगे। न शक्तिपुरुषयोरिति । वेदकरणस्य शक्तेः पुरुषस्य च परस्परं। न किञ्चिद् विरोधदर्शनमस्ति। ततश्च ब्रह्मा दिषु पुरुषत्वं हेतुत्वेनोक्तमविरुद्धत्वान्न वेदकरणशक्तिमपनयति। तस्मानाविरुद्धविधिः । अविरुद्धस्य विधिर्यस्मिन्ननुपलब्धिप्रयोगे स एवंभूतोनुपलब्धिप्रयोगो न गमकः । विरोधाभाव एव कथमित्याह। न हीत्यादि। अतीन्द्रियेष्वत्यन्तपरोक्षेषु ब्रह्मादिषु वेदकरणशक्त्या सह। सहानवस्थानलक्षणस्य विरोधस्य प्रतीतिः। अतीन्द्रियत्वादेव। नापि परस्परपरिहारस्थितिलक्षणस्य विरोधस्य प्रतीतिः। शक्त्यशक्त्योः पुरुषापुरुष'त्वयोश्च परस्परम्विरोधात्। न शक्ति- 16oa पुरुषयोर्यः पुरुषः स वेदकरणं प्रत्यशक्तो यथेदानीन्तनः पुरुष इति । न चायं प्रयोगः पूर्वप्रयोगादिति। यद्वेदाध्ययनन्तद्वेदाध्ययनपूर्वकमिदानीन्तनवेदाध्ययनवदित्येतस्मात् पर्वप्रयोगाद् भिद्यते। तस्मादुभयोरुपादानं व्यर्थमेवेत्यभिप्रायः ।
यत्पुनरुच्यते। यदि पुरुषाः प्राक्तना वेदं कृत्वा स्वय मध्येतुं शक्ताः स्युस्तदेदानीन्तना अपि स्युरिति।
अत्रोच्यते। पुरुषाणाम्विशेषासम्भवे सत्येतदनन्तरोक्तं स्यात्। स च पुरुषाणां विशेषासम्भवा (द्) दुस्साध्यशक्यसाधनः। बाधकाभावात्। तस्माद् यत्रैकस्य पुरुषस्याशक्तिस्तत्र सर्वपुरुषाणामशक्तिः (1) पुरुषत्वादित्यस्मिन्नपि साधने पूर्ववदध्यनत्वादिवत् पुरुषत्वं लिङ्गं व्यभिचारि। किं कारणं। भा र ता दिष्वपि पौरुषेयाभिमतेष्विदानीन्तनानां पुरुषाणामशक्तावपि कस्यचिद् व्या सा देः पुरुषा