________________
४४६
प्रमाणवात्तिकस्ववृत्तिटीका (१।२४६) ।
सम्भवत्तादवस्थ्यानियमाच्च ।
यदि विनाऽपि ज्वालया स्यादन्यत्रापि स्यादिति । - यया सामग्रया स सम्भवति सा यदि स्यात, तदा स्यादेव। तद्धावं प्रदर्य मदभावं कथयेत्, तत्र वा ज्वाला तदभावं वा दर्शयेत्। ।
तस्मान्नैकस्य परपूर्वकमध्ययनं सर्वस्य तथाभावं साधयति। तस्यान्यथा सम्भवाभावात् । तत्क्रियाप्रतिभया रहितस्य एवंभूतस्य तथा स्यादिति तथाभूतमेव वाच्यं स्यात्, नाविशेषेण सम्भवद्विशेषमुच्यमानं सुलभम् ।
कथं विशेषस्य सम्भवः, यावता तेषामपि पुरुषाणां प्रशक्तिरेव। इदानीन्तन
किं कारणं (1) तत्र हेतुभेदभिन्ने वह्नौ विशेषप्रतिक्षेपस्यारणिनिर्मथनकृतविशेषा159b पह्नव'स्य कर्तुमशक्यत्वात् । सम्भवत्यरणिकृतो विशेषो यस्य वह्नस्तस्य च ताद
वस्थ्यानियमात् । ज्वालाप्रभवत्वलक्षणायामवस्थायान्नियमाभावात्। __ यदप्युक्तम् (1) आद्यः पथिकाग्निविना ज्वालया यदि स्यादन्यत्रापि ज्वालारहितेपि प्रदेशे स्यादिति। ___अत्रोच्यते (1) भवत्येव'। ययारणिनिर्मथनलक्षणया सामग्रया स पथिकाग्निः सम्भवति सा सामग्री यदि स्यात। यदि पूनरस्याः सामग्रयाः सम्भवं प्रदर्य तदभावम्वयभावं कथयेत। तत्र वा यथोक्तसामग्रीसम्भविनि देशे ज्वालान्दर्शयेत् (1) तदा स्यादेव ज्वालापूर्वकत्वमेव वह्नर्न चैवं। तस्मान्न सर्वः पथिकाग्निालापूर्वक इति व्यभिचारः। ___ यत एवन्तस्मान्नकस्य वेदक्रियाशक्तिरहितस्य परपूर्वकमुपदेष्टपूर्वकमध्ययनन्दृष्टं सर्वस्य हि र ण्य गर्भा देरप्यध्ययनस्य तथाभावं परपूर्वकत्वं साधयति । किं कारणं। तस्याध्ययनस्यान्यथा परपूर्वकत्वमन्तरेण यो सम्भवस्तस्याभावात् । स्वयमुपरचय्याध्ययनं न सम्भवेदित्यर्थः। हिरण्यगर्भादीनाम्वेदरचनायां शक्तिसम्भवात्। यस्तु शक्तिविकल इदानीन्तनस्तस्य तथाविधस्य स्वयं कृत्वा वेदमध्येतुमसमर्थस्य । तत्क्रिया वेद क्रिया तस्यां या प्रतिभा तया रहितस्य वेदकरणसमर्थया बुद्ध्या रहितस्येत्यर्थः। एवंभूतस्य पुरुषस्य यदध्ययनन्तत्तथा स्यादध्ययनान्तरपूर्वकं स्यादिति कृत्वा। तथाभूतमिति वेदक्रियाशक्तिरहितस्य यदध्ययननन्तदेव। एवं वाक्यं स्यादध्ययनान्तरपूर्वकं वाच्यं स्यानाविशेषेण । यत्पुनरध्ययनं
B. अत्रोच्यते। अन्यत्र ज्वालारहितेपि प्रदेशे पथिकाग्निर्भवत्येव । २B. तद-added.