SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ७. अपौरुषेय - चिन्ता ४४५ सम्भवात् पथिकाग्निरन्यो वाऽर्थ एकप्रतिनियतो न स्यादित्याशंक्यते व्यभिचारः । सोऽप्यन्योन्यव्यतिरेकिधर्मावतारो वस्तुसामान्येऽविरुद्ध इत्युच्यते नावस्थाभेदिनि विशेषे वा । निष्कलस्यात्मनो तदतत्त्वविरोधात् । न च ज्वालेतरजन्मनोः पथिकाग्नौ बाध्यबाधकता' । तस्य ज्वालाप्रभवव्यतिरेकासंभवाभावात् । एवं पथि- 495a काग्निज्वलाप्रभव इति स्यान सर्वः । तत्र विशेषप्रतिक्षेपस्य कर्त्तुमशक्यत्वात्', वह्ने रूपमन्यथापि स्यादरणि' निर्मथनादपि स्यात् । इति एवंधर्म योज्वलेतरसम्भविनोर्द्वयोरेकत्रार्थे वह्निसामान्ये सम्भवात् कारणात् स पथिकाग्निरन्यो वा चेदध्ययनादिः । एकप्रतिनियत इति ज्वालापूर्वक एव । वेदाध्ययनं । वा वेदाध्ययनपूर्वकमेवेत्येतन्न स्यादित्याशंक्यते व्यभिचारः ( 1 ) वेदाध्ययनं च स्यात् । न च वेदाध्ययनपूर्वकं । तथा पथिकाग्निश्च स्यान्न न च ज्वालापूर्वक इति । विरोधाभावात् । ननु यज्ज्वालाप्रभवम्वह्नेर्न तदरणिनिर्मथनप्रभवमिति कथं न विरोध इत्याह । सोपीत्यादि । सोप्यन्योन्यव्यतिरेक परस्परविरुद्धो धर्मद्वयस्य ज्वालाप्रभवत्वारणिनिर्मथनप्रभवत्वलक्षणस्यावतारोवकाशो वस्तुसामान्ये ऽविरुद्ध इत्युच्यते । नावस्थाभेदिनि वह्निविशेषे ज्वालाजन्मन्यरणिनिर्मथनजन्मनि वाऽविरुद्ध उच्यते । किन्तु विरुद्ध एव । किं कारणं (1) निष्कलस्यात्मनो निर्विभागस्य स्वभावस्य तदतत्त्वविरोधात् । ज्वालाजन्मनो हि ज्वालापूर्वकत्वमतत्पूर्वकत्वं च विरुध्यते । अरणिजन्मनश्चारणिपूर्वकत्वमतत्पूर्वकत्वं च विरुध्यते पथिकाग्निसामान्येपि द्वयविरुध्यत इत्याह । न चेत्यादि । ज्वालेतरजन्मनोः ज्वालोत्पादस्यारणिनिर्मथनोत्पादस्य च पथिकाग्नौ पथिकाग्निसामान्ये बाध्यबाधकता । किं कारणं ( 1 ) तस्य पथिकाग्नि' सामान्यस्य ज्वालाप्रभवव्यतिरेकेण ज्वालोत्पत्तिव्यतिरेकेण* योऽसम्भवस्तस्याभावात् १० । ज्वालोत्पत्तिव्यतिरेकेणारणिनिर्मथनादपि ११ भावादित्यर्थः । यादृशस्तु ज्वालाप्रभव इति स्यान्न सर्वो वह्निरविशेषेण B. त्यक्तः । B. वेदाध्ययनाविः । ' B. स्यादिति । अरणि० । B. अग्निसामान्य added. ४ B. रूपं वन्हे० । B. रणि० । • B. इत्यत आह । • B. भावता । ← B. ज्वालो—-Omitted. १० B. योऽसम्भवस्तस्याभावादरणिनिर्भथनादपि added. ११ B. दृष्ट एवंभूतोऽन्योपि ज्वालाप्रभव - added.
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy