________________
प्रमाणवात्तिकस्ववृत्तिटीका (१।२४६) तत्राप्रदर्श्य ये भेदं कार्यसामान्यदर्शनात् ।
हेतवः प्रवितन्यन्ते सर्वे ते व्यभिचारिणः॥२४६।। . यथाऽऽद्योऽपि पथिककृताग्निः पथिककृताग्नित्वात् ज्वालान्तरपूर्वको न काष्ठनिर्मथनपूर्वकः अनन्तराग्निवत् ।
कथं पथिककृतद्रहनस्य व्यभिचारः ? ज्वालोद्भवसामर्थ्य ह्याश्रित्य हेत्वन्तरं प्रतिक्षिप्यते । यदि ह्यग्निविनाऽपि स्यात्, अन्येष्वपि स्यादिति तत्र ज्वालेतरजन्मनोर्बाध्यबाधकाभावे ज्वालाप्रभवत्वं अन्यथापि स्याद । एवं धर्मयो रेकत्रार्थे
ब्रह्मादयो न वेदानां कत्र इति गम्यतां ।
पुरुषत्वादिहेतुभ्यस्तद्यथा प्राकृता नरा"१ इति। सर्वे ते हेतवो व्यभिचारिणोऽनेकान्तिका एव । कार्यसामान्यदर्शनात् । पुरुषकार्यैः शब्दैः सामान्यस्य तुल्य 'स्य वैदिकेषु शब्देषु दर्शनात्।
किम्वदनैकान्तिका इत्याह। यथेत्यादि । 159a यद्वा तत्रेति। यद्वेदाध्ययनन्तद्वेदाध्ययनपूर्वफमित्यत्र प्रयोगे। अप्रदर्य'
भेदमिति वेदक्रियाप्रतिभारहितात पूरुषाद विशेषमप्रदर्श्य। इदानीं वेदाध्ययनं वेदाध्ययनपूर्वकन्तथान्यदापीत्येवं वेदाध्ययनत्वलक्षणस्य कार्यसामान्यस्य दर्शाना देवंप्रकारा हेतवः प्रवितन्यते सर्वे ते व्यभिचारिणः । यथाऽन्योपि पथिककृताग्निरदृष्टहेतुत्वात्। ज्वालान्तरपूर्वको न काष्ठनिर्मथनपूर्वकः। कुतः (1) पथिकाग्निवत्। किमिव (1) अनन्तराग्निवदिति ज्वालान्तरसंभतदृश्यमानाग्निवत् ।
कथमित्यादि। यस्माज्ज्वालोद्भवसामर्थ्य ह्याश्रित्येति ज्वालायाः सकाशादुद्भवसामर्थ्यमाश्रित्य पथिककृतदहनस्य हेत्वन्तरमरणिनिर्मथनं प्रतिक्षिप्यते। किं कारणं (1) यदि ह्ययमग्निविना ज्वालया स्यादत्रापीति ज्वालापूर्वकपथिकाग्निस्थानेपि ज्वालामन्तरेणैव स्यादिति। तत्रतस्मिन् साधनेऽनैकान्तिकत्वमुच्यते। कथं ज्वालेतरजन्मनोर्वालाया योत्पत्तिः। इतरस्मादरणिनिर्मथनाद् योत्पत्तिस्तयोरुत्पत्योरग्निसामान्ये परस्परमबाध्यबाधकत्वात् । को ह्यत्रविरोधोग्निश्च स्यान्न च ज्वालान्तरपूर्वक इति। एवं सति ज्वालाप्रभवत्व
२B. किं कारणं--added.
Slokavārtika. B. तुल्यत्वात्