SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ७. अपौरुषेय-चिन्ता ४४३ ततो न स्यादिति न कश्चित् तथा वचनीयः स्यात् ।' रूपविशेषो वा दर्शनीयः, 494b य एनं हेतुमनुविदध्यात्, येनेष्टस्यानिष्टस्य च इष्टविपर्ययो न स्यात्। हेतुस्वभावस्य निवृत्तेरपि वस्तूनां अभेदे स भेद आकस्मिकः स्यादिति न क्वचित् निवर्तेत । तस्माद् यत्स्वभावजन्मा यो दृष्टः सोऽन्यत्राप्यबिभज्यमानो यतो दृष्टस्तत्कार्यतां अग्नीन्धनवत् स्वात्मना नातिवर्त्तते । ततः पुरुषान्न किञ्चिद्वाक्यं स्यादिति न कश्चिच्छब्दो लौकिकस्तथेति पौरुषेयत्वेन वचनीयः स्यात् । रूपविशेषो वा पौरुषेयाणां वैदिकाद् भिन्नो दर्शनीयो यो रूपविशेष एनं पुरुषाख्यं हेतुमनुविदध्यात्। येन विशेषेणेष्टस्यापौरुषेयत्वेन वेदस्य अनिष्टस्य च लौकिकस्य । इष्टविपर्ययो न स्यात् । यथाक्रमं पौरुषयत्वमपौरुषेयत्वम्वा स्यात् । न च लौकिकवैदिकानां कश्चित् स्वभावभेदोस्तीत्युक्तं । ___किं च पुरुषाख्यस्य हेतोर्यः स्वभावस्तस्य निवृतेनिवृत्तावपि षष्ठीसप्तम्योरभेदात्। यथा वृक्षे शाखा वृक्षस्यशाखेति । वैदिकानां वाक्यानां पौरुषेयैर्वाक्यरभेदेन तुल्यरूपत्वेभ्युपगम्यमाने। स तेषां लौकिकानाम्वाक्यानाम्भेदः पुरुषकृतो विशेष आकस्मिकः स्यादहेतुकः स्यात्। पुरुषमन्तरेणापि वैदिकेषु वाक्येषु तस्य विशेषस्य भावात्। तथा च न क्वचिन्निवर्तेताकाशादौ । न चैवन्तस्माद् यः स्वभावो यज्जन्मा। यस्माज्जन्म यस्येति विग्रहः। सोन्यत्रा प्यदृष्टहेतावप्यविभज्यमानः । दृष्टहेतुना कार्येणापृथक्रियमाणस्तत्कार्यतां यातो भवन् दृष्टस्तस्कार्यतां स्वात्मना स्वेन रूपेण नातिवर्तते। किमिव (1) अग्नीन्धनवत्। अग्निश्चेन्धनं चेत्यग्नीन्धनन्तेन तुल्यन्तद्वत् । दृष्टेनेन्धनकारणेनाग्निना भेदमनुभवन्नदृष्टकारणोप्यग्निर्यथेन्धनकार्यतां नातिवर्त्तते तद्वत्। (२४४२४५) तत्रैतस्मिन न्याये स्थिते। लौकिकवैदिकयोर्वाक्ययोर्भेदमप्रदर्य अपौरुषेयत्वसाधनाय ये हेतवः प्रवितन्यन्ते। विस्तरेणाभिधीयते। तद्यथा "कर्तरस्मरणात्।" वेदस्याध्ययनं सर्वङ गुर्वध्ययनपूर्वकम् (1) वेदाध्ययनवाच्यत्वात् अधुनाध्ययनं यथा। (वाक्य० ३६६) अतीतानागतौ कालौ वेदकारवियोगिनौ। कालत्वात् तद्यथा कालो वर्तमानस्समीक्ष्यते॥ १B. न स्यात्। २ B. जन्माऽस्यति।
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy