SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ४४२ प्रमाणवात्तिकस्ववृत्तिटीका (१।२४५) न वा कश्चिद, तस्य तथाऽनिष्टत्वा दित्यादौ “इष्टस्तदाश्रयत्वादि"त्यादि चोक्तम् । अपि च । यज्जातीयो यतः सिद्धः सोऽविशिष्टोनिकाष्ठवत् । अदृष्टहेतुरप्यन्य(ोऽविशिष्टः) संप्रतीयते ॥२४५॥ न हेतोरदर्शनानाहेतुको नाम । अदृष्टहेतवोऽपि भावाः तदन्यैः स्वभावाभेदमनुभवन्तः तथा विधाः समनुमीयन्ते ।' अथ हेतुरूपस्य निवृत्तावपि तद्रूपं न निवृत्तं (तदा) कार्यधर्मव्यतिक्रमः । ल्या। तदनुसारिणेति । अनुपदेशपाठाशक्तिमपौरुषेयत्वसाधकत्वेन योनुसरति तेन सर्वो लौकिकवैदिकः शब्दस्तथा पौरुषेयत्वेनानुमेयः। न वा कश्चिद् वैदिको विशेषाभावात्। तस्य लौकिकस्य वाक्यस्य तथेत्यपौरुषेयत्वेनानष्टत्वादित्यादौ।। आदिशब्देनाभ्युपेतबाधापरिग्रहस्तत्रोक्तमनन्तरमेव “इष्टेस्तदाश्रयत्वादपौरुषेयत्वसाधनाश्रयत्वा दि"त्यादि। (२४३-२४४) अपि च। यज्जातीयो यद्दव्यसमानजातीयः। यतो हेतोः सिद्धोन्वयव्यतिरेकाभ्यां। स तज्जातीयत्वेनाविशिष्टोन्योप्यदृष्टहेतुरपि तस्माद्धेतोर्न भवतीत्येवं संप्रतीयते। किमिव (1) अग्निकाष्ठवत्। यथेन्धनादेको वह्निदृष्टस्तत्समानस्वभावो (s) परोपि तत्समानहेतुरेवादृष्टहेतुरपि सम्प्रतीयते। अनेन वेदस्यापौरुषयत्वसाधने प्रतिज्ञाया अनुमानबाधामाह। नेत्यादिना व्याचष्टे। हेतोरदर्शनान्नाहेतुको नाम । यस्माददृष्टहेतवोपि। न दृष्टो हेतुरेषामिति विग्रहः । त एवं भता अपि भावास्तदन्यैर्दृष्टहेतुभिः स्वभा158b वाभेद'मनुभवन्तस्तुल्यरूपा इत्यर्थः। तथाविधा इति तत्समानहेतवस्समुन्नीयन्ते । अयमत्र समुदायार्थः । लौकिकेन शब्देन समानधर्मो वैदिकोपि शब्दो लौकिकवत् पुरुषहेतुकः स्यान्ना वा कश्चिदपीति। ____ अथ हेतुरूपस्य हेतुस्वभावस्य निवृत्तावपि तद्रूपं पुरुषहेतुशब्दसमानं रूपं (न) निवृत्तं वैदिकस्य शब्दस्येष्यते। तदा कार्यधर्मव्यतिक्रमः। अयं हि कार्यस्य धर्मो यत्कारणनिवृत्तौ निवृत्तिः। यदा तु निवृत्तेपि पुरुषे वैदिकेषु शब्देषु पौरुषेयं रूपं स्यात् तदा तेन कार्यधर्मो व्यतिवृत्तः स्यात्। ततः कार्यधर्मव्यतिमात् 1 Yan-dag-par-rjes-su-dpog-par-hgyur-ro. B. साधनत्वादित्यादि। ३ B. तोर्भवती०
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy