________________
७. अपौरुषेय - चिन्ता
घ. न नित्यता
(क) गुर्वध्ययनपूर्वकत्वादपि न
यथाऽयमन्यतोऽश्रुत्वा नेमं वर्णपदक्रमम् । वक्तुं' समर्थः पुरुषस्तथान्योपीति कश्चन ॥२४३॥ पौरुषेयत्वेऽपि पौरुषेयमित्यादि तदेवोत्तरं स्यात् । तथा हि-अन्यो वा रचितो ग्रन्थः सम्प्रदायादृते परैः । ± दृष्टः कोऽभिहितो येन सोप्येवं नानुमीयते ॥ २४४॥
४४१
न खलु किञ्चिदपौरुषेयत्वाश्रयोऽन्यत्रे दानीन्तनानामुपदेशेन श्रशक्तेः । सा यत्रापि केन रचिते ग्रन्थेऽन्यस्य तुल्या । तदनुसारिणा सर्वस्तथाऽनुमेयः,
" इति दूषयितुमुपन्यस्यति । यथेत्यादि । यथायमिदानीन्तनो वेदस्याध्येतान्यतः सकाशाद् श्रुत्वा इमम्वैदिकम्वर्णक्रमं । वर्णपदयोः क्रमं वक्तुमध्येतुं न सम-र्थः । तथान्यपि वेदस्य कर्त्तृत्वेनाभिमतः सोप्यन्यत उपदेशमपेक्षते सोप्यन्यत इत्यनादित्वात् सिद्धमपौरुषेयत्वमिति एवं कश्चनाह । तस्याप्येवम्वादिनस्तदेवोत्तरं यत् कर्त्तुरस्मरणादित्यत्रोक्तं । एवमनन्तरोक्तप्रकारेणापौरुषेयत्वेपि किमि - दानीम्पौरुषेयवाक्यं सर्वमपौरुषेयं स्यात् । अन्यस्यापि कु मार स म्भ वाध्ययनस्याध्ययनपूर्वकत्वेनानादित्व प्रसाधनात् । तत्र प्रसाधनेभ्युपेतबाधेति चेत् । नन्विदमेवाभ्युपगमाङ्गमित्यादि सर्वम्वाच्यं । अस्यैव संग्रहायादिशब्दः प्रयुक्तः । ( २४२ - २४३ )
अतिप्रसंगमेव दर्शयन्नाह । तथा हीत्यादि । अन्यो वा पुरुषरचितः कुमारसम्भवादिको ग्रन्थः । संप्रदायादृते । परोपदेशमन्तरेण परैः कोभिहितो दृष्टो नैव कश्चिद् दृष्टः । येन कारणेन सोपि वेदादन्यो ग्रन्थः । एवमित्यपौरुषेयः किन्नानुमीयते ।
न खल्वित्यादिना व्याचष्टे । न खलु किञ्चिदपौरुषेयत्वाश्रयो पौरुषेयत्वस्य सिद्धिनिमित्तमन्यत्रेदानीन्तनानामनुपदेशेन यः पाठस्तत्राशक्तेः । न हि परोपदेशमन्तरेण वेदं पठितुं शक्त इत्यपौरुषेयत्वम्वेदवाक्यानामिष्टं । सा चानुपदेशपाठाशक्तिरन्यत्रापि पौरुषेयाभिमते । एकेन केनचित् पुरुषेण रचितेन्यस्याध्येतुस्तु
1 Ślokavārtika, Vakya, 366
५६