________________
__ प्रमाणवात्तिकस्ववृत्तिटीका (१।२४२) किं च, अनतिशयदर्शी अयं एवंप्रकाराणां अपौरुषेयत्वसाधनातां वा कार्यधर्माणां वाक्येषु क्वचिदतिशयं अभ्युपेतीत्यप्रत्ययवास्य वृत्तिः ।
दृश्यन्ते च विच्छिन्नक्रियांगसम्प्रदायाः कृतकाश्च । यत्नवन्तः उपलभन्त इति चेत् । न । नियमाभावात् ।। 494a अन्यत्रापि उपलम्भानुपलम्भस्य परोपदेशादप्रत्ययाद् अनुपलम्भस्यानिश्चया'
हेतुत्वात् । स्वयं कृतानामपि अपह्रोतृदर्शनात्, निष्ठागमनस्य अशक्यत्वात् ।
तथा वेदवाक्येष्वेवं कर्तुरस्मरणादिसाधनस्यानतिशयदर्शी विशेषदर्शी सन् मी मां स कः । पुरुषकार्याणां वा शब्दानां धर्माः कार्यधर्माः पुरुषान्वयव्यतिरेकानुविधायित्वादयस्तेषां कार्यधर्माणाम्वाक्येषु लौकिकवैदिकेष्वनतिशयदर्शी सन् क्वचिद् . वैदिके शब्देतिशयं विशेषमपौरुषेयत्वलक्षणमभ्युपेति नान्यत्रेति न किञ्चिदभ्युपगमे साधनमस्तीत्यप्रत्ययेवायुक्तेवास्य वेदवादिनो वृत्तिः।
तदेवं यथोक्तविधिना कर्तुरस्मरणादित्यसिद्धो हेतुः । अनैकान्तिकत्वमप्याह । दृश्यन्ते चेत्यादि। उपदेशपारम्पं यं स म्प्रदा यः। विच्छिन्नः क्रियासंप्रदायः पुरुषकृतत्वसंप्रदायो येषां बटे वटे वै श्र व णादि शब्दानान्ते तथा। अनेनास्मर्यमाणकर्तृत्वमाह। कृतकाश्च पौरुषेयाश्च। ततः पौरुषेयेपि वाक्ये कर्तुरस्मरणम्वर्त्तत इत्यनकान्तिकोयं हेतुः। तानिति विच्छिन्नक्रियासम्प्रदायान् । कृतकान् शब्दान् । यत्नवन्तः पुमांसमुपलभन्तेऽनेन कृता इति। नैतदेवं। किङ्कारणं। यत्नवतोपि कर्तुः स्मरणे नियमाभावात्। नावश्यं कर्तारमुपलभते यत्नवानपीति सन्देह एव।
किञ्च (1) अन्यत्रापौरुषेयाभिमतेपि शब्देस्य कर्ता नोपलभ्यत इत्यनुपलम्भस्य। उपलभ्यते वास्यापौरुषेयस्य कर्तेत्युपलम्भस्य न प्रमाणात् कुतश्चिन्निश्चयः। किन्तु परोपदेशात्' किंभूतादप्रत्ययादप्रमाणकात्। एवंभूताच्चोपदेशात् कर्तुरुपलम्भानुपलम्भस्यानिश्चयाहत्वात्। मया वेदवाक्यानि कृतानीत्येवंवादिनोनुपलम्भाद् वेदवाक्येषु कर्तुरभावो निश्चीयत इत्येतदपि नास्ति। स्वयंकृतानामपि
शब्दानामपह्रोतृदर्शनात् । स्वयंकृत्वापि शब्दा न मयते कृता इत्यपलपितारो 158a दृश्यन्ते। तत्र च किमनेनैते कृताः किम्वान्येनेति निष्ठागमनस्य निश्चयगमनस्याशक्यत्वात् । (२४२)
तदेवं कर्तुरस्मरणादिति हेतुन्निराकृत्यान्यदपि साधनं । "वेदस्याध्यनं सर्वं गुर्वध्ययनपूर्वकं (1) वेदाध्ययनवाच्यत्वादधुनाध्ययनं यथा (1)