SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ७. अपौरुषेय-चिन्ता ४३६ षेयो भवति ? एवं कुमारसम्भवादिषु प्रात्मानं वा अन्यं वा प्रणेतारं व्यपदिशन्तो यदेवं प्रतिव्यू झेरन । तत्र प्रतिव्यूहनऽभ्युपेतबाधेति चेत् । नन्विदमेव अभ्धुपगमेंऽगं इति केन बाधा ? तत् परस्यापि तुल्यमेव । तस्यष्टत्वाददोष इति चेत् । कुतोऽस्येयमिष्टिरप्रामाणिकाऽऽदित प्रासीत् । तदा अकस्माद् ग्राही चायं किं क्वचित् साधनं अपेक्षते, येन पौरुषापौरुषेयचिन्तयाऽऽत्मानं वा दुःखयति । तत एव इष्टरनभ्युपेतबाधायामिष्यमाणायां तदन्यस्यापि तुल्यमित्यनुपालम्भः। प्येरन्। मिथ्यावादो युष्माकं न यूयं प्रणेतार इति। तत्र कुमारसम्भंवादौ कर्तुः प्रतिवहनेभ्युपेतबाधा। कुमारसम्भवादीनां पौरुषेयत्वेनाभ्युपगतत्वादितिचेत्। नन्विदमेव कर्तुरस्मरणमपौरुषेयाभ्युपगमेङ्ग साधनं। तच्च कुमारसम्भवादावस्तीति यथोक्तेन न्यायेनेति कथमनेन पौरुषेयः कुमारसम्भवादिरिष्ट इति कस्य केन बाधा। अथ तुल्येपि न्याये कुमारसम्भवादौ कर्तुः प्रतिवहनेभ्युपेत' बाधनमिष्यते। तदेतदभ्युपेतबाधनम्परस्यापि वेदवादिनोपि वेदवाक्येषु प्रणेतृप्रतिवहने तुल्यमेव। तस्य वेदवादिनो वेदापौरुषेयत्वमिष्टमतो पौरुषेयत्व-. स्येष्टत्वात् कर्तुः प्रतिवहनेप्यदोषः। अभ्युपेत्वाधादोषो नास्तीति चेत् कुतोस्य वेदवादिनः आगमोपादाननिमित्ततायाः परीक्षायाः प्रागियमपौरुषेयो वेद इत्येव मिष्टिरभ्युपगतिः। अप्रमाणिका प्रमाणरहिता आसीत् । तथा हि वेदस्यापौरुषेयत्वाभ्युपगमे कर्तुरस्मरणं प्रमाणमुक्तं । तत्र चानन्तरमुक्तो दोष इत्यप्रमाणिकेयमिष्टिः। अथ प्रमाणमन्तरेण वेदस्यापौरुषेयत्वमङ्गीकृतवान् वेदवादी। तदाऽकस्माद् ग्राही युक्त्या विना ग्राहकश्चायं मी मां स कः किम्पुनः क्वचित् पौरुषेयापौरुषेय- 175b त्वादौ साधनं प्रमाणमपेक्षते। यदिति पौरुषेयापौरुषेयचिन्तयेति पौरुषेयापौरुषयत्वसाधनोपन्यासेनात्मानमासादयति। यो ह्ययक्तिग्राही स सर्वत्र तथैव प्रवर्ततां। किमिति क्वचित् प्रमाणावतारणेनात्मानं दुःखयतीति समुदायार्थः । ___तत एवाप्रमणिकाया वेदस्यापौरुषेयत्वेष्टेहेंतोदवादिनो वेदस्य कर्तुः प्रति!वहनेप्यनभ्युपेतबाधायामिष्यमाणायान्तदन्यस्यापि तस्मात् मी मां स कादन्यस्यापि पुंसः कु मा र स म्भ वादिमपौरुषेयमिच्छतस्तत्प्रणेतृप्रतिवहनेप्यनभ्युपेतबाधनं तुल्यमित्यनुपालम्भः। तत्र प्रतिवहनेभ्यपेतबाधेत्ययमपालम्भो नास्तीत्यर्थः । __ कि चानतिशयदर्शीत्यादि। एवंप्रकाराणां कर्तुरस्मरणादित्येवमादीनामपौ. रुषयत्वसाधनानां वाक्येषु पौरुषेयापौरुषेयत्वाभिमतेष्वनतिशयदर्शीति सम्बन्धः । तथा हि यथा पौरुषेयाणामनेकेषां चिरकालातीतकर्तृकाणां कर्तुरस्मरणमस्ति ।
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy