________________
४३८
प्रमाणवात्तिकस्ववृत्तिटीका (१।२४२)
ग. नापौरुषेयता
अपौरुषेयतापीष्टा कर्तृणामस्मृतेः किल । याऽपीयं वैदिकवाक्यानां अपौरुषेयता वर्ण्यते कर्तुरस्मरणाद्--
सन्त्यस्याप्यनुवक्तार इति धिग व्यापकं तमः ॥२४२।।
तस्यैव तावदीदृशं प्रज्ञास्खलितं कथं वृत्तमिति सविस्मयानुकम्पं नः चेतः । 493b तत्रापरेऽपि अनुवदन्तीति निर्दय' आक्रान्तं भुवनं तमसा व्याप्तम् । कः प्राणिनो हितेप्साविप्रलब्धस्यापराधः?
तथा हि सौगता मन्त्राणां कर्तृन् अष्टकादीन्, काणादाश्च हिरण्यगर्भ । स्मरन्ति । तेषां च स मिथ्यावाद इति चेत। क इदानीं तथाऽपौरुषेयत्वं यः पौरु
द्यत्वेप्यनवक्तार इति। किमत्र वक्तव्यं केवलं धिग्व्यापकन्तमः। तथा हि (1)
यः कर्तुरस्मरणादपौरुषेयतामाह जै मि निः। तस्यैव तावदीदृशमतिस्थलं प्रज्ञा157a स्खलितं कथं वृत्तं जातमिति' कृत्वा सह विस्मयेनानुकम्पया वर्तत इति सविस्मया
नुकम्पं नोस्माकं चेतः। श्रुतवतोप्येवमविद्याविलसितमिति सविस्मयं । गाढेनाविद्यांबन्धन सत्त्वाः पीड्यन्त इति कृत्वा सानकम्पं । तदत्रापरेपीदानीन्तन्मतानुसारिणः कु मा रि ल प्रभृतयः परीक्षकंमन्या एवमेतदनुवदन्तीति निर्दयं निष्कृपमाकान्तं भुवनं जगद् येन तमसा तत्तथोक्तं धिव्यापकन्तमः। अज्ञानस्यैवात्र धिग्वादो युक्तो न प्राणिनः । यस्मात् कः प्राणिन एवं वादिनोपि हितेप्साविप्रलब्धस्य हितप्राप्तीच्छया विप्रलब्धस्य विसम्वादितस्यापराधः। किन्त्वज्ञानस्यैवायन्दोषः। किं पुनस्तस्यैवम्वदतः प्रज्ञास्खलितं।
यस्मादिदं साधनमसिद्धमनैकान्तिकञ्च। (२४२ )
तत्रासिद्धमधिकृत्याह। तथा होत्यादि। स्मरन्ति सौ ग ता वेदस्य कर्तृन ष्ट का दीन्। आदिशब्दाद् वा म क वा म दे व विश्वा मित्र प्रभृतीन् । हिरण्यगर्भ ब्रह्मा णं वेदस्य कर्तारं स्मरन्ति का णा दा वैशेषिकाः। ततश्चासिद्धं कर्तुरस्मरणं। तेषां सौगतानाञ्च स वेदस्य कर्तृस्मरणवादो मिथ्यावादस्ततः । सिद्धिहेतोरिति चेत् । क इदानीम्वेदादन्योपि पौरुषेयः शब्दः। न कश्चित् पौरुषेय इत्यर्थः । एवमिति कर्तुः स्मरणवादस्य मिथ्यात्वे। एतदेव स्पष्टयन्नाह । कु मा र स म्भ वे त्या दिष्वित्यादि। कुमारसम्भवादिषु ग्रन्थेषु का लि दा सा दय आत्मानमन्यम्वा प्रणेतारं कर्तारं व्यपदिशन्तो यदेवम्प्रतिव्यूोरन्। प्रतिक्षि