________________
७. अपौरुषेय-चिन्ता
एतद्विकल्पानतिक्रमात् । वस्तु च सम्बन्धः स कथं तदाश्रयः स्यात् ? प्राश्रयणीयस्यायोगात् । एवमनाश्रितः स्यात्। तथा चासम्बन्धः स्यात् ।
तस्मान्न स्वाभाविकः शब्दार्थयोः सम्बन्धः। तदभिप्रायस्य प्रयोगादुत्पन्नोऽभिव्यक्तो वा शब्दः तदव्यभिचारीति तत्त्वमस्य सम्बन्धः। सा चोत्पत्तिरभि- . व्यक्तिर्वा अव्यभिचाराश्रयः पौरुषेयीति पौरुषेय एव सम्बन्धः। तद्द्वारेण च अर्थप्रत्यायने शब्दानां न नियम इत्यपौरुषेयत्वेऽपि स एव विप्रलम्भः।
नानेकमेव पदादि। तदिति तस्माद् (1) एकानेकत्वेन प्रतिभासनादेकानेकयोविरोधेनायोगात् पदादि न वस्तु। यद्वा तत्पदादि न वस्तु। एकानेकत्वायोगादिति भावः । किं कारणं (1)तस्य वस्तुनः एतद्विकल्पानतिक्रमात् । यस्माद् वस्त्वेकरूपं वा स्यादनेकरूपं वा कदाचित् स्यान्न तूभयरूपं विरोधात्। वस्तु च शब्दार्थसम्बन्धः परेणेष्टः स कथन्तदाश्रयः स्यात् । अवस्तुभूतपदवाक्याश्रयः स्यात्। तत्पदवाक्यमाश्रयोस्येति विग्रहः । किं कारणं । असत्त्वेन पदादेराश्रयणीयस्यायोगात् । एवमित्याश्रयणीयाभावेऽनाश्रितः सम्बन्धः स्यात्। तथा चानाश्रितत्वादसम्बन्धः सम्बन्धः स्यात । सम्बन्धिपातन्त्र्याभावात्। ___यत एवन्तस्मान्न स्वाभाविकोपौरुषेयः शब्दार्थयोस्सम्बन्धः। किन्तु पौरुषेय एव सम्बन्धः। यस्मात् । तदभिप्रायस्यार्थप्रतिपादनाभिप्रायस्य यः प्रयोगान्तः परिस्पन्दादि :। तस्मादुत्पन्नः शब्द एतत् स्वदर्शनेनोक्तं । अभिव्यक्तो वा शब्द एतत्पराभिप्रायेणोक्तं । तदव्यभिचारी। अर्थप्रतिपादनाव्यभिचारीति कृत्वा तत्त्वमर्थप्रतिपाद नाभिप्रायकार्यत्वमस्य शब्दस्य सम्बन्धः। अर्थप्रतिपादनाभिप्रायेण शब्दप्रयोगात्। सा चोत्पत्तिरभिव्यक्तिर्वा शब्दस्यार्थप्रतिपादनम्प्रत्यव्यभिचाराश्रयोऽव्यभिचारस्य निमित्तं पौरुषेयी पुरुषकृता । इति । एवं पौरुषेय एव सम्बन्धः शब्दार्थयो :। तद्वारेण च यथोक्तसम्बन्धद्वारेणार्थप्रत्यायने शब्दानान्न नियम इत्यपौरुषेयत्वेपि शब्दानां स एव विप्रलम्भो विसम्वादः । तथा चापौरुषेयत्वकल्पना व्यर्थेवेति भावः। (२४१-२४२) ___ अपौरुषेयतापि वेदवाक्यानां मी मां स के रिष्टा। कर्तृणां वेदस्य प्रणेतृणामस्मृतेलिङ्गात् । किल शब्दश्चायुक्तताख्यापनाय।
यापीत्यादि व्याख्यानं। बहूनामर्थानां कर्ता न स्मर्यते । न च ते तावताऽकृतकाः। तद्यथा जीर्णकूपादयः । एवं हेतोर्व्यभिचारादयुक्तरूपापीयमपौरुषेयता। वेदवाक्यानां कर्तुरस्मरणाद् वर्ण्यते जै मि नि ना। अस्यैवम्विधस्य वस्तुनः सन्त्य