________________
प्रमाणवार्तिकस्ववृत्तिटीका (१।२४१) 493a च एकपरमाण्वतिक्रमकालत्वात् । प्राधिक्ये विभागवतः पर्यवसानायो'गात् ।
अनेकाणुव्यत्ययनिमेषकालत्वात् निष्कृष्टस्य वर्णस्य निष्पत्तेः । स्मृतिरपि तत्कालव । यथानुभवं स्मरणात्, अनुभवस्मरणानुक्रमयोविशेषानुपलक्षणाच्च नैकं पदादि । अभेदप्रतिभासत्वाद् बुद्धः। तदनेकत्वस्य निषेत्स्यमानत्वाच्च । तद् न वस्तु,
___ स्यादेतद् (1) यावता कालेन वर्णनिष्पत्तिस्तावत्काल एकः क्षणस्तत एकया बुद्धया पदस्य ग्रहणम्भविष्यतीत्यत आह। क्षण स्येत्यादि। यावता कालेनैक: परमाणुः परमाण्वन्तरमतिकामति तावत्कालत्वात् क्षणस्य। विभागरहितः कालः स चैकपरमाण्वतिक्रमकाल एव युज्यते। यथोक्तात्कालादाधिक्ये क्षणस्याभ्युपगम्यमाने। विभागवतः शक्यविभागस्य क्षणस्य कालपर्यवसानायोगात् । तेनैकस्याप्यतिनिष्कृष्टस्य वर्णस्यानेकक्षणेन निष्पत्तिः। किं कारणं। अनेकेत्यादि। अनेक स्याणोर्व्यत्ययो व्यतिक्रमो यस्मिन्निमेषे सोनेकाणुव्यत्ययो निमेषः । तेन तुल्यकालत्वादन्त्यस्य निष्कृष्टस्याप्याकारादेवर्णस्य परिसमाप्तेः । तस्मान्नैकवर्णरूपं पदमेकबुद्धिग्राह्यं । नाप्यनेकात्मकमेकपदं स्मृतिग्राह्यं । किं कारणं (।) यथानुभवं स्मरणात् । यथानुभवो वर्णानामनुक्रमेण तथा स्मृतिरपि तत्र क्रमभाविन्येवेति स्मृतिरपि तत्कालैव। स एवानुभवक्रमकालोस्या इति कृत्वा। एतच्चान्यां प्रवृत्तिमधिकृत्योक्तमभ्यासवत्यान्तु प्रवृत्तौ क्रमेणानुभूतानामपि वर्णानां यद्यपि युगपत्स्मरणम्भवति तथाप्यनुभवस्मरणानुक्रमयोविशेषानुपलक्ष
णाञ्च नैकम्पदादि। तेनायमर्थः (1) अनुभवे योयम्वर्णानामनुक्रमः प्रतिभासते 156b स्मरणे च यो वर्णानुक्रमः प्रतिभासते तयोविशेषो भेदो नोप'लक्ष्यतेऽतः कथमेक पदायेकबुद्धिग्राह्यमुच्यते।
नाप्यनेकमेव पदादि । किं कारणम् (1) अभेदप्रतिभासत्वात् बुद्धः। अभेदेनैकत्वेन प्रतिभासनाद् बुद्धेः पदवाक्याकारायाः तथा हि पदे वाक्ये चोच्चारिते एकमिदं पदं वाक्यं चेति लोकस्य मतिर्भवति।
___ तेन यदुच्यते।
"शैघ्यादल्पान्तरत्वाच्च गोशब्दे सा भवेदपि।
देवदत्तादिशब्देषु स्फुटो भेदः प्रतीयते” इति (स्फोट ० १२१) तदपास्तं ।। वर्णानुभवोत्तरकालमेकपदाध्यारोपिकाया बुद्धेरुत्पत्तेः। तदनेकत्वस्य पदाद्यनेकत्वस्योत्तरत्र निषेत्स्यमानत्वाच्च ।
1 Yan-bahi-phyir=? Snan-bahi-phyir