________________
७. अपौरुषेय-चिन्ता
. ४३५ क्रमेण' ग्रहणायोगात् । न तदेकया ग्राह्यं, वर्णानुक्रमेण ग्रहणात्।
एकवर्णग्रहणेऽपि अनेकबुद्धिव्यतिक्रमात् । क्षणिकत्वाद् बुद्धीनाम् । क्षणस्य
एतदुक्तम्भवति। क्रमवर्णानुभवपृष्ठभावि मनोविज्ञानन्तान् वर्णान् पदादि- . . रूपतयैकस्वभावानध्यवस्यतीति पदादिपरिकल्पितं मिथ्यैव।
ननु वर्णानाम्भिन्नानामेवानुभवात् कथमेकपदाद्यवभासी विकल्प उत्पद्यते। उत्पद्यते च । तस्माद् वणेष्वेकपदाद्यनुभवेन भाव्यमिति। ___ नैष दोषः। प्रतिपादको हि संकेतकाले वर्णक्रममेकपदादिरूपतया प्रतिपन्नमेव परं प्रत्येकमिदं पदादीति संकेतयति। तदा च परस्यापि तत्र वर्णक्रमे एकपदाध्यारोपिका बुद्धिरुत्पद्यते। तस्य चैकपदाद्यध्यारोपितैकाकारानुभवाहितसंस्कारस्य पुंसो व्यवहारकालेपि वर्णक्रमश्रवणादेकमिदं पदम्वाक्यम्वेत्येकाकारस्य विकल्पस्योत्पत्तिर्भवति । एवं पूर्वपूर्वश्रोतणां पूर्वपूर्ववक्तृभ्यो' वर्णक्रमेष्वेकत्वारो- 156a पेण प्रतीतिर्भवतीत्यनादित्वं पदादिव्यवहारस्य। ___अत एवोच्यते। अनादिसभागवासनो विकल्पप्रतिभासविभ्रमः पदं वाक्यं चैकावभासि मिथ्र्यवेति। मिथ्यात्वं च भिन्नानाम्वर्णानामेकपदादिरूपतया स्मरणज्ञाने प्रतिभासनात् । तावतश्चैकानेकत्वयोविरोधेनायोगात् ।।
अथ स्यादेकमेव पदादि प्रत्यक्षग्राह्यन्तत्कथं मिथ्यति।
तदयुक्तं । यस्मान्न ह्येकं पदादि। किं कारणं। अनेकया वर्णक्रमग्राहिण्या बुद्धया क्रमेण ग्रहणायोगात्। एकत्वे ह्येकयैव बुद्धया सकृद् गृह्येत। न त्वेकयैव बुद्धया पदादेर्ग्रहणमिति चेदाह। न तदेकयेत्यादि । तत् पदादि। नैकया बुद्धया ग्राह्य। किं कारणं। वर्णानुक्रमेण वर्णपरिपाटया पदवाक्ययोर्ग्रहणात्।। ___ एकवर्णरूपन्तर्हि पदमेकबुद्धिग्राह्यम्भविष्यतीत्यत आह। एकवर्णेत्यादि। एकवर्णनिष्पत्तिकालेप्यनेकबुद्धिव्यतिक्रमानैकवर्णः। तथा हि भागित्युक्तेऽर्द्धमात्राकालो निरच्को गकारः प्रतीयते। साच्कस्तु मात्राकाल: प्रतीयत इति कथमेकवर्णरूपं पदम्विद्यते यदेकबुद्धिग्राह्यं स्यात् । तेन यदुच्यते। सकलमेव गृह्णाति।
"अल्पीयसापि यत्नेन शब्दमुच्चरितम्मतिः।। यदि वा नैव गलाति वर्णम्वा सकलं स्फट ।
पृथक् च नोपलभ्यन्ते वर्णस्यावयवाः क्वचिदिति (1) तदपास्तं । यथोक्तेन न्यायेन सावयवत्वाद् वर्णस्य । न चैकया बद्धया क्रमवतां वर्णभागानां ग्रहणं क्षणिकत्वाद बद्धीनां ।
.. 1Sloka, Sphot. 10, II
2 Ibid.