________________
४३४
प्रमाणवात्तिकस्ववृत्तिटीका (१।२४१)
वर्णानां न वाचकत्वे पदादि वाचकं स्यात् । (वैयाकरणपक्षनिरास:-)
तदसति वर्णानां वाचकत्वे पदादि वाचकं स्यात् । तच्च न किंचित् । व्यतिरेकाव्यतिरेकयो विरोधात्।
तस्माद इन्द्रियविज्ञानविशेषानुबन्धि सभागवासनोपादानविकल्पप्रतिभासविभ्रमं पदं एकावभासि मिथ्यव। एकानेकत्वयोरयोगात। अनेकया बुद्धया
तदारुढास्ततो वण्र्णा न दूरेर्थावबोधनात्। ___ शब्दादर्थमतिस्तेन लौकिकरभिधीयत" इति ॥ एतदप्ययुक्तं। एककर्तृप्रयुक्तानामेवार्थप्रतिपादकत्वेनायुगपत्तिनाभेवार्थप्रतिपादकत्वात् । न च स्मरणविषयाणां वर्णानां योगपद्यमध्यवसीयते। नियतक्रमाणामेव स्मर्यमाणत्वात्। नापि स्मृत्या वर्णस्वलक्षणग्रहणम्प्रत्यक्षवत् स्पष्टप्रतिभासाभावात् । एकस्य च स्पष्टास्पष्टानेकाकारायोगाच्च। केवलं स्मरणेनास्पष्टस्वभावानाम्वर्णानां स्वाकाररूपाणां बाह्यवर्णाभेदेनाध्यवसायात् बाह्यवर्णानामेव वाचकत्वमुच्यते । अवाह्येषु च वर्णेषु बाह्यवर्णाध्यवसायेन पदादिपरिकल्पितमस्माभिरिष्यते ।
एवं मी मां स क पक्षे वर्णानां वाचकत्वे निरस्ते पदाद्यपि निरस्तमेव । वर्णादिव्यतिरेकेण पदादेरभावात्। तदुक्तं।।
न वर्णव्यतिरेकेण पदमन्यद्धि विद्यते।
वाक्यम्वर्णपदाभ्यां च व्यतिरिक्तन्न किञ्चनेति ।। संप्रति वैयाकरणानां वर्णादिव्यतिरिक्तम्पदादि निराकर्तुमाह। तदसतीति। तदित्युपन्यासे। तस्मादर्थे वा। असति वर्णानाम्वाचकत्वे पदादि वाचकं स्यात्तच्च पदादि न किञ्चित् । किं कारणम् (1) वर्णेभ्यस्तस्य पदादेव्यतिरेकाव्यतिरेकयोविरोधात्। व्यतिरेके भेदेनोपलम्भः स्याद् दृश्यस्य । अदृश्यत्वेप्यवाचकत्वमगृहीतस्य ज्ञापकत्वायोगात् । अव्यतिरेकेपि वर्णवदेवावाचकत्वप्रसंगः।
यत एवन्तस्मात् । इन्द्रियविज्ञानविशेषः क्रमवर्णग्राहिपटीयः श्रोत्रविज्ञानन्तदनुबन्धी तदनुभवद्वारायातः। सभागवासना सजातीयविकल्पशक्तिरुपादानं यस्य विकल्पस्य स तथोक्तः। सभागवासनोपादानश्चासौ विकल्पश्च तस्य प्रतिभासविभ्रमः । प्रतिभासभ्रान्तिरेव पदं वाक्यं चैकावभासि मिथ्यैव ।
1 Rigs-pa=? Rims-pa-क्रमः
2 Slokavartika Slok (Sphot.)