________________
७. अपौरुषेय-चिन्ता
४३३
पदार्थप्रतिपादनप्रसङ्गात्। न चैककर्तृकाणां योगपद्यं प्रतिभासते। नापि नित्यत्वं व्यापित्वं च युज्यत इति वक्ष्यतीत्यसारमेतत् । यच्चाप्युच्यते।
"यद्वा प्रत्यक्षतः पूर्वं क्रमज्ञातेषु यत्परं। समस्तवर्णविज्ञानन्तदर्थज्ञानकारणं ॥ तत्र ज्ञाने च वर्णानां योगपद्यं प्रतीयते ।
नावश्यं यौगपद्येन प्रत्यक्षस्थेन तद् भवेत् ॥"१ . यत्परमित्युत्तरं पूर्वापरपरामर्शन (?ण) समस्तवर्णविषयं विज्ञानन्तदर्थप्रतीतिनिमित्तं । तद्भवेदित्यर्थप्रतिपादनम्भवेदन्येनापि यौगपद्यज्ञानेनार्थप्रतिपादनम्भवेदित्यर्थ इति।
_एतदप्ययुक्तं। क्रमो हि प्रयोक्तृप्रयुक्तो न यौगपद्यं । प्रयोक्तृप्रयुक्तावस्थेभ्यश्च वर्णेभ्योर्थप्रतीतिरिति न यौगपद्यादर्थप्रतीति: स्यात् । सक्रमाणाञ्च वर्णानां यौगपोन ग्रहणे भ्रान्तत्वप्रसंगात् । न च तेषां यौगपद्यमस्ति नित्यत्वायोगादिति।
"चित्ररूपां च तां बुद्धि सदसद्वर्णगोचरां।
केचिदाहुर्यया वर्णो गृह्यतेऽन्त्यः पदे पदे।" (स्फोट० ११) प्रतिपदमन्त्यो वर्णो यया बुद्धया गृह्यते सा सन्निहितासन्निहितवर्णविषयत्वेन स्मरणप्रत्यक्षरूपाभ्यामुभयरूपति केचिदाहुः ।
तदप्ययुक्तम् (1) एकस्य ज्ञानस्य प्रत्यक्षाप्रत्यक्षरूपविरोधात्। न च प्रत्यक्षमेवैकं सदसद्वर्णविषयं। अभावविषयत्वविरोधात्। नापि स्मृतिरूपं सन्निहितविषयत्वेनानिष्टत्वात् । अत एव च पदादिग्राहकज्ञानं कल्पितविषयं स्यादिति ।
अन्ये त्वन्त्यवर्णपरिज्ञाने सति पूर्ववर्णानुभवाहितसंस्कारप्रबोधकारितं स्मरणं सर्ववर्णेष्वर्थप्रत्यायकमाचक्षते । तदाह।
'अन्त्यवणे हि विज्ञाने सर्वसंस्कार'कारितं स्मरणं योगपद्येन सर्वेष्वन्ये 155b प्रचक्षते ॥ कथं क्रमेणानुभूतानां युगपत्स्मरणमिति चेदाह।
"सर्वेषु चैवमर्थेषु मानसं सर्ववादिनां। इष्टं समुच्चयज्ञानं क्रमज्ञानषु सत्स्वपि ॥ (स्फो० ११३) तेन श्रोत्रमनोभ्यां च क्रमाद् वर्णेषु यद्यपि। पूर्वं ज्ञानं परस्तात्तु युगपत् स्मरणम्भवेत् ॥
1 Śloka, Sphot. 109-10