________________
४३२
प्रमाणवात्तिकस्ववृत्तिटीका (१।२४१)
स्यादेतद् (।) यथा के वलस्य बीजस्यांकुरं प्रत्यकारकत्वेपि सहकारिसन्निधाने विशिष्टत्वात् कारकत्वं। तथा वर्णाः प्रत्येकमसमर्था (अ)प्यानुपूर्वीविशेषेण विशिष्टा अर्थप्रतीतिहेतव इति ।
तदयुक्त। अन्त्यस्य हि वर्णस्य वर्णान्तरसहितस्य केवलस्य चोच्चारणे . . को विशेषो यत्कृतावर्थप्रतीतिभावाभावौ स्यातां ।
नन्वयमेव विशेषो ये सहितासहित ते। सत्त्यं । कार्यकरणे हि खल तेषां साहित्यं । न च ते यदा सन्तस्तदा व्याप्रियन्तेर्थप्रतीतौ। प्रत्येकमसमर्थत्वात् । नाप्यन्यवर्णकालेऽसत्त्वात् ।
एष तर्हि विशेषो येयं क्वचित् प्रवृत्ता पूर्ववर्णोपलब्धिः क्वचिन्नेति।
नैतदपि सारं। न हि प्रवृत्तापूर्ववर्णोपलब्धिरन्त्यम्वर्णम्भेत्तुमर्हत्यसत्त्वात् । अविशेषे च यत्र कार्ये वर्णानां प्रत्येकमशक्तिस्तत्र सहितानामप्यविशेषात् । अन्धानामिवादित्यदर्शने।
तेन न च यत्रैकशो शक्तिरित्यादि निरस्तं। रथाङ्गानां हि विशेषोत्पत्तौ सत्यां साहित्यावस्थायाम्बहनादौ सामर्थ्यमन्यथा प्रत्येकवत् साहित्येपि सामर्थ्यन्न स्यात् ।
न च परस्परम्वण्र्णानां कार्यकारणभावो येन पूर्वे वर्णाः पारम्पर्येणार्थप्रतीतौ 155a शक्ताः स्युः ।। नापि पूर्ववर्णजनितसंस्कारसहितस्यान्त्यस्य वर्णस्यार्थप्रतीति
हेतुत्वात् पूर्ववर्णानां पारम्पर्येण सामर्थ्यं । वर्णानुभवाहितसंस्कारस्य वर्णेष्वेव स्मृतिहेतुत्वान्नार्थे । न हि गवानुभवाहितसंस्कारोऽश्वे स्मरणमुपकल्पयति । न च पूर्ववर्णाहितसंस्कारसहितान्त्यवर्णदर्शने सत्यर्थप्रतीतेदृष्टवात् तद्धेतुत्वं । संकेताभावेर्थप्रतीतेरभावात् । संकेतश्च सामान्यविषयो न वर्णस्वलक्षणविषय इति कथम्वर्णाः क्रमविशेषेण वाचकाः ।
किञ्च (1) केवलस्य वर्णस्यार्थाप्रतिपादकत्वे संस्कारसहितस्यापि न तत स्यात। विशेषानत्पत्तेः (1) तत्कथं कश्चिद्वर्णः साक्षादर्थप्रतिपादने समर्थः कश्चित् पारम्पर्येणेत्युच्यते। यदप्युच्यते।।
"इत्थं क्रमगृहीतानां युगपद् याथवा स्थितिः ।।
ततः सा कारणं नः स्यान्नित्यमर्थधियम्प्रति ।" एवं क्रमप्रतिपन्नानाम्वर्णानां नित्यत्वाद् व्यापित्वाच्चाकाशदेशे या युगपत स्थितिरवस्थानन्तदेव निमित्तमर्थप्रतीति प्रतीति ।
तदयक्तं। प्रतीयमानो हि शब्दार्थं प्रतिपादयति न सन्निधानमात्रेण। सर्व
1 Sloka, Sphot. 108.