________________
७. अपौरुषेय-चिन्ता
४३१
न। क्रमस्यानर्थान्तरत्वेन अभेदकत्वाद् । तपस्य क्रमान्तरेऽपि अविशेषात् तुल्या प्रतिपत्तिः।
अर्थान्तरत्वमपि क्रमस्य पश्चात् निषेत्स्यमानत्वात्।
I54b
ककत्वनिमित्ते च क्रमे सति नियामकं । प्रयुञानस्य यत्पूर्वम्वृद्धेभ्यः क्रमदर्शनं ॥ (स्फोट ०७१) । युगपद् दृष्टसामर्थ्यान्नैव' शक्ताः क्रमे यथा।
भावास्तथा क्रमे शक्ता यौगपद्ये न शक्नुयुः॥" (, ७३) किञ्चार्थप्रत्यायनं प्रति ।
"अवश्यम्भाविनी नित्यं प्रत्यासत्तिश्च कस्यचित । न तावता व्यपेतत्वादितरेषामनङ्गता ॥ ( , ८३) यथा विसर्जनीयस्य व्यवधाने न शक्तता। तथैव शक्तिरन्येषामानन्तर्ये न विद्यते ॥ ( , ८५) न च यत्रकशोऽशक्तिस्तत्र सर्वेषाम शक्तता।
रथाङ्गानि हि दृश्यन्ते शक्तानि वहनादिष्वि"ति ॥(, ८६) नेत्यादिना परिहारमाह। नैतदेवं। यस्माद् वर्णेभ्यः क्रमस्यानर्थान्तरत्वं । स्यादर्थान्तरत्वम्वा । तत्र प्रथमे पक्षे क्रमस्यानर्थान्तरत्वेन कारणेनाभेदकत्वादविशेषकत्वात्। न हि यद्यतोनर्थान्तरन्तत्तत्स्वभावस्य भेदकम्भवति। ततश्च तद्रूपस्य वर्णात्मकस्य क्रमस्य । रस इत्यत्र यद्रूपन्ततः क्रमान्तरे सा इत्येतस्मिन्नपि वर्णवदविशेषात् तुल्या स्यादर्थप्रतिपतिः।
व्यतिरिक्तस्तहिवणेभ्य : क्रम इत्यत आह अर्थान्तरत्वमपीति । वर्णेभ्योर्थान्तरत्वमपि क्रमस्य पश्चात् निषेत्स्यमानत्वात् । यतो न युगपदुत्पन्नानाम्वर्णानां' क्रमः सम्भवत्यप्रतीतः। अयुगपदुत्पन्नानामपि नार्थान्तरभूतः क्रमोऽ युगपदुत्पादस्यैव क्रमरूपत्वात् । तथा हि लौकिकाः क्रमं कथयन्तोऽयुगपदुत्पादमेव कथयन्ति । तस्मादयुगपदुत्पाद एव क्रमः। नापि क्रमोऽयुगपदुत्पन्नयोरेकस्य धर्म एकप्रतीतौ क्रमस्याप्रतीतेः। नाप्युभयधर्मः। एककालमुभयस्यासत्त्वादसतश्च कथं धर्मः । तस्मात् पूर्वापरयो वयोः स्वरूपमेव क्रम उच्यते इति वक्ष्यति । पूर्वापररूपे च क्रमे तथापि न वर्णाः क्रमेणार्थाधिगमनिमित्तम्भवंति। प्रत्येकमर्थाप्रतिपादकत्वात्। साहित्याभावात् । नियतक्रमवर्त्तिनामयोगपद्येन सम्भूय कारित्वानुपपत्तेश्च ।
१B. सामर्थ्या नैव। B. शक्तानि दृश्यन्ते।
२B. सर्वेष्वशक्तता। B. च B. नास्ति वर्णानां।