________________
४३०
प्रमाणवात्तिकस्ववृत्तिटीका (१।२४१) तदाऽतिप्रसंगः विशेषाभावात् । किञ्च--
वर्णा निरर्थकाः सन्तः पदादिपरिकल्पिताः । . अवस्तुनि कथं वृत्तिः सम्बन्धस्यास्य वस्तुनः ॥२४१॥ वाचको हि वचनांगेन तद्वान् स्यात्। सन्तोऽपि वर्णा प्रवाचकाः। तद् न तेषु वाच्यवाचकभावसम्बन्धो वर्तते। तद्वृत्तौ स्वरूपहानिप्रसंगात् । क्रमविशेषेण वर्णा एव वाचका इति चेत् ।
सिद्धः। यस्सम्बन्धः सृष्टः सन् तौ सम्बन्धिनौ श्लेषयेत् । तदयमित्यादि। यद्यर्थान्तरेण तृतीयेन सम्बन्धिनौ श्लिष्यतस्तदातिप्रसंगः। सर्वो येन केनचित् तृतीयेन श्लिष्ट: स्यात् । विशेषाभावात्। न हि सम्बन्धाभिमतस्यान्यस्य च पदार्थान्तरण सम्बद्धत्वे कश्चिद् विशेषोस्ति। (२४०) . किञ्च । वर्णा ये सन्तो वस्तुसन्तस्ते तावनिरर्थकास्ततो न ते वाचकास्तेन न तत्र वाच्यवाचकसम्बन्धस्य वृत्तिः। पदादेस्तहि सार्थकत्वात् तत्र सम्बन्धवृत्तिभविष्यतीत्याह। पदादिपरिकल्पितमादिशब्दाद् वाक्यम्वाचकम्भवेत्। तस्मिंश्च परिकल्पिते पदे वाक्ये वाऽवस्तुन्यवस्तुस्वभावे । कथं सम्बन्धस्य वाच्यवाचकत्वलक्षणस्य वस्तुनो वस्तुस्वभावस्य कथम्प्रवृत्तिर्नैव। . वाचको हीत्यादि विवरणं। वाचको हि वचनांगेनोक्तिनिमित्तेन सम्बन्धाख्येन तद्वान् सम्बन्धवान् स्यात् । सन्तोपि विद्यमाना अपि वर्णाः प्रत्येकमर्थाप्रतिपादकत्वात्। साहित्याभावात्। नानाप्रयोक्तृप्रयुक्तेभ्यश्चार्थप्रतिपत्त्यदर्शनादवाचकाः। ____ तदिति तस्मान्न तेषु वर्णेषु वाच्यवाचकभावसम्बन्धो वर्त्तते। तवृत्तौ तेषु वाच केषु वर्णेष सम्बन्धस्य वृत्तौ सत्यां सम्बन्धस्य यद्वाचकत्वाङ्गत्वन्तस्य हानिप्रसङ्गात्।
क्रमविशेषेणानुपूर्वी विशेषेणैकप्रयोक्तृप्रयुक्ता वर्णा एव वाचकास्ततो न यथोक्तदोष इति चेत् । तदुक्तं ।
“यावन्तो यादृशा ये च यदर्थप्रतिपादने।
वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधकाः ॥” (स्फोट० ६६) एतदेव स्पष्टयति।
"तषान्तु गुणभूतानामर्थ प्रत्यायनं प्रति। साहित्यमेककादिक्रमश्चापि विवक्षितः॥ (स्फोट० ७०)