________________
७. अपौरुषेय-चिन्ता
४२६
भिन्नत्वाद्वस्तुरूपस्य सम्बन्धः कल्पनाकृतः । इत्युक्तं प्राक् । न हि श्लेषलक्षणः सम्बन्धिनो रश्लिष्टषु पदार्थेषु सम्भवति । न च तयोः सम्बन्धस्य अर्थान्तरमपि भवति। एवम्--
सद् द्रव्यं स्यात् पराधीनं सम्बन्धोऽन्यस्य वा कथम् ॥२४०॥ न हि सिद्धं सत् परमपेक्षते। अनपेक्षत्वेन स्वतन्त्रश्च न सम्बन्धः। द्रव्यमिति स्वभाव उच्यते। स कथं परभावस्य श्लेषः स्यात् । न स्वभावान्तरस्य सत्तयाऽन्यः श्लिष्टो नाम। अश्लिष्ठेन माभूत, श्लिष्टेन तु स्यादिति चेत् । न । यस्तौ श्लेषयेत्, तस्यैव ताभ्यां श्लेषासिद्धः । तदिमौ यद्यर्थान्तरेण' श्लिष्यतः 492b
___ कुतस्तस्य वस्तुनो रूपलक्षणत्वात् स्वभावलक्षणत्वात् । रूपस्य चैतद् विकल्पानतिवृत्तेः।. भेदाभेदविकल्पानतिवृत्तेः। भिन्नत्वाद् वस्तुरूपस्य शब्दार्थस्वरूपस्य । न रूपश्लेषलक्षणस्सम्बन्धो भाविक: किन्तु कल्पनाकृत एवेत्युक्तं प्राक् । "पुरुषस्य व्यवहाराभ्यासादसंसृष्टावपि संसृष्टौ तौ भासेते तद्वशात्सम्बन्धव्यवस्थेत्या" दिना। न हि श्लेषलक्षणस्सम्बन्धिनोः परस्परम्मिश्रप्तालक्षणः सम्बन्धोऽश्लिष्टेष्वसंसृष्टेषु पदार्थेषु सम्भवति। शब्दार्थानां रूपश्लेषादर्थान्तरमेव तृतीयम्वस्तु सम्बन्ध इत्याह । न चेत्यादि। (२३६)
यस्मान्निष्पन्नं सत् तदर्थान्तरम्पराधीनं कथं । सम्बन्धाधीनं कथम्भवेत् । सम्बन्धाधीनश्च सम्बन्ध इष्यते द्विष्ठत्वात्। नापि तदर्थान्तरम्परश्लेषरूपत्वात्सम्बन्धो युज्यत इत्याह । द्रव्यम्पदार्थान्तरञ्च' कथमन्यस्य सम्बन्धिनः सम्बन्धः 154a स्यात्।
एतेनार्थान्तरत्वे सम्बन्धस्य सम्बन्ध्याश्रितत्वम्परश्लेषरूपत्वञ्च यत्परेणेष्टन्तदुभयं निरस्तं।
“यदि नामार्थान्तरं कस्मात् पराधीनं न भवतीत्याह। न हीत्यादि। यस्मान्न हि सिद्धं सत् परमपेक्षते। निष्पन्नस्य सर्वनिराशंसत्वात्। अनपेक्षत्वेन स्वतन्त्रश्चान्यस्य न सम्बन्धः । न चार्थान्तरं सम्बन्धो युज्यते (।) यस्माद् द्रव्यमिति स्वभाव उच्यते पदार्थान्तरमेवोच्यते (1) स कथं परभावस्य सम्बन्धिनोः इलेषः स्यात्। नैव स्यात्। नापि श्लेषहेतुर्भवति। किं कारणं । यस्मान्न स्वभावान्तरस्य तृतीयस्य सत्तयान्यः सम्बन्धिनोः स्वभावः श्लिष्टो नामाभूदश्लिष्टेनासम्बद्धन सम्बन्धाख्येन श्लिष्टो भावः । श्लिष्टेन तु श्लिष्ट: स्यादिति चेत् ।
नैतदेवं । किं कारणं (1) तस्यैव सम्बन्धाख्यस्य ताभ्यां सम्बन्धिभ्यां श्लेषा