________________
४२८ प्रमाणवार्तिकस्ववृत्तिटीका (११२३६) 492a स च शब्दो यदभिप्रायः प्रयुज्यमानो दृष्टोऽन्यथा न दृष्टः। दर्शना दर्श
नाभ्यां धूमादिवत् प्रतीति जनयतीति अविनाभावाख्यः सम्बन्धः। न चात्र अन्यस्य सामथ्यं पश्यामः । .. ___ अथापि शब्दार्थयोः सम्बन्धो नान्यस्य--
ताभ्यामभेदे तावेव नातोऽन्या वस्तुनो गतिः ॥२३९।। - रूपभेदनिबन्धनत्वात् व्यवस्थान्तरस्य । तद्रूपं तु तदेव स्यात् । धर्मभेदस्तु स्यात् पूर्वोक्तेन क्रमेण। स चाविरुद्ध एव, न तु वस्तुभेदः । न भेदाभेदौ मुक्त्वा वस्तुनोऽन्या गतिः।
तस्य वस्तुनो लक्षण त्वात् । रूपस्य चैतद् विकल्पानतिवृत्तेः। किञ्च ।
स च शब्दो यदभिप्रायैर्यदर्थप्रतिपादनाभिप्रायैः पुरुषः प्रयुज्यमानो दृष्टः समयकालेऽन्यथा न दृष्टं इति विवक्षितार्थविपर्ययेण प्रयुज्यमानो न दृष्टः। एतेनान्वयव्यतिरेकावुक्तौ । (२३८)
इति यथोक्ताभ्यान्दर्शनादर्शनाभ्यान्तस्यार्थस्य प्रतीतिञ्जनयति धुमादिवत् । स एव दर्शनादर्शनशब्दाभ्यां सूचितः शब्दार्थयोरविनाभावाख्यः सम्बन्धः। न चात्राप्रतीतिजनने यथोक्तमविनाभावं मुक्त्वान्यस्य वस्तुभूतस्य सम्बन्धस्य सामर्थ्यम्पश्यामः। नापि तस्य सम्बन्धस्य सिद्ध्युपायं सिद्धिनिमित्तं किंचित् पश्यामः । - एवन्तावत् सम्बन्धिभ्यां सम्बन्धभेदाभ्युपगमे दोषमुक्त्वाऽभेदाभ्युपगमेपि दोषमाह। अथेत्यादि। ताभ्यामिति सम्बन्धिभ्यां सम्बन्धस्याभेदे सति। तावेव सम्बन्धिनावेव शब्दार्थो केवलमिति न सम्बन्धो नाम कश्चित् । तत्त्वान्यत्त्वरहितस्तहि सम्बन्धो भविष्यतीति चेदाह। नात इत्यादि। अतस्तत्त्वान्यत्वविकल्पादन्या नास्ति वस्तुनो गतिः। ___रूपेत्यादि विरणं ।' रूपभेदः स्वभावभेदः । तन्निबन्धनत्वाद् व्यवस्थान्तरस्येति स्वभावान्तरव्यवस्थानस्य। यत्तु न भिन्नरूपं किन्तु तद्रूपं सम्बन्धिरूपमेवेष्टं सम्बन्धाख्यम्वस्तु। तत्तदेव स्यात्। सम्बन्धिस्वभावमेव स्यान्नान्यत् । कथन्तमुनयोः सम्बन्ध इति प्रतीतिरित्याह। धर्मभेदस्तु परिकल्पितः स्यात् । पूर्वोक्तेन क्रमेणान्यापोहविहितेन व्यावृत्तिभेदसमाश्रयेण। स च व्यावृत्तिभेदः। . कल्पनाकृत एकस्मिन्नप्यविरुद्धः। न तु वस्तुभेद एकत्राविरुद्धः किन्तु विरुद्ध एव । एकस्य परमार्थेन नानात्वायोगात् न भेदाभेदौ मुक्त्वा वस्तुनोन्या गतिः ।
'B. वचनं।