________________
७. अपौरुषेय-चिन्ता
४२७
न ह्यसत्यां सम्बन्धविशेषेण सा युक्ता। तस्यां वा अनिमित्तायां तद्विशेषः प्रतीतिनियमवत् प्रतिपादनमप्यनिमित्तं शब्दानां किन्नेष्यते ? ततस्तल्लिङ्गं सदृशं अविशेषेण सम्बन्धं गमयेत्। तस्मादविशेषेणैव सर्वस्यार्थस्य प्रतीतिः स्यात्। तस्मात् सम्बन्धसिद्धचाऽर्थप्रतीतेन कश्चित सम्प्रदाय अपेक्षेत।
सम्प्रदायसहितस्य लिङ्गत्वमिति चेत् । तत् किमनया परम्परया ? स एव सम्प्रदायापेक्षोऽर्थज्ञापनं किन्न करोति ?
भ्यामप्रत्यायनात् । प्रत्यायने वा विशेषाभावे न सर्वसम्बन्धप्रतीतः सर्वार्थगतिः स्यात्। न चैवम् (1) तस्मादनियताभ्यां शब्दार्थाभ्यामप्रतीतिरस्य सम्बन्धस्य। ____ यदि च शब्दार्थानां सम्बन्धेन सह सम्बन्धविशेषः सिद्धः स्यात् क्वचित्तदा सम्बन्धविशेषप्रतीतिः स्यात्। न ह्यसत्यां सम्बन्धविशेषेण शब्दानां सम्बन्धसिद्धौ सा सम्बन्धविशेषप्रतीतिर्युक्ता।
अथ पुनस्सम्बन्धमन्तरेण शब्दात् सम्बन्धविशेषप्रतीतिरिष्यते तस्याम्वा सम्बन्धप्रतीतावनिमित्तायामिष्यमाणायान्तद्विशेषः प्रतीतिनियमवत् सम्बन्धविशेषप्रतीतिप्रतिनियमवद् अर्थप्रतिपादनमप्यनिमित्तं शब्दानां किन्नेष्यते। तच्छब्दार्थस्वभावं लिङ्गं सदशन्तुल्यं सर्वसम्बन्धे (1) ततश्चाविशेषेण शब्द: सर्व सम्बन्धङ्गमयेत् तदाऽविशेषेणैव सर्वस्यार्थस्य प्रतीतिः स्यात् । सर्वस्य पुरुषस्य गृहीतसमयस्यागृहीतसमयस्य सर्वार्थप्रतीतिः स्यात्। तस्माद् यथोक्तेन न्यायेन सम्बन्धसिद्धयाऽर्थप्रतीतेः कारणान्न कश्चित् पुरुषोर्थप्रतीतौ संप्रदायं परोपदेशमपेक्षेत। __न केवलस्य शब्दस्य सम्बन्धसिद्धौ लिङ्गत्वं किन्तु संप्रदायसहितस्य लिङ्गत्वमिति चेत्। तत्किमिदानीमनया परम्परया। सम्प्रदायस्ततः शब्दस्य लिङ्गत्वन्तस्मात् सम्बन्धप्रतीतिस्ततोर्थस्य प्रत्यायनमिति किमनया परम्परया।। स एव 153b शब्द: केवलो वस्तुभूतसम्बन्धरहितस्सम्प्रदायापेक्षोर्थज्ञापनं किन्न करोति येन सम्बन्धोपरः कल्प्यते।
अत एवार्थप्रतीत्यन्यथानुपपत्त्यापि शक्तिसम्बन्धकल्पना निरस्ता। शक्तिमन्तरेण संकेतबलादेवार्थप्रतीतिसम्भवात्। तेन "सम्बन्धस्त्रिप्रमाणक" इति यदुच्यते तदपास्तं।
१B. तद्विशेषप्रतीतिप्रतिनियतवत्।
B. च--added.
'B. तुल्यं सम्बन्धः। "B. सद्भावात्।