________________
४२६
प्रमाणवार्तिकस्ववृत्तिटीका (१।२३६)
साधनापेक्षणात् ।
इन्द्रियादिषु तुल्यमिति चेत् । न। तेषामन्यथानुमानात्। ज्ञानं केषुचित् सत्सु अन्वयवत् व्यतिरेकवच्च तन्मात्रादसम्भवं तव्यतिरेकापेक्षां च साधयति । । ततः कार्यद्वारेणेन्द्रियसिद्धिः। नैवं सम्बन्धस्य ।
तस्यैवासिद्धौ तत्कार्यस्यैव ज्ञानाभावात् । न हि शब्दरूपमर्थो वा लिंगम्। तयोः सर्वत्र योग्यत्वात् । अर्थविशेषप्रतीतिसमाश्रयस्य अप्रत्यायनात् न प्रतीतिः ।
किन्तर्खनुमानादित्यत आह। नानुमा नात् प्रतिपत्तिस्सम्बन्धस्य। कुतो लिङ्गाभावात्। न हि सम्बन्धसाधनं किञ्चिल्लिङ्गमस्ति। अर्थप्रतीतिरपि न लिङ्ग दृष्टान्तासिद्धेः। न हि क्वचिद् दृष्टान्ते सम्बन्धकार्याऽर्थप्रतीतिः प्रतिपन्ना। कि
कारणं (1) तत्रापि दृष्टान्तत्वेनोपनीते सम्बन्धस्यातीन्द्रियत्वेन कारणेन साधना• पेक्षणात् । न चास्ति साधनं (1) तत्रापि दृष्टान्तासिद्धेः ।
तदेतद् दृष्टान्तरहितत्वमिन्द्रियादिष्वतीन्द्रियेषु सत्तासाधकेनुमाने क्रियमाणे तुल्यमिति चेत्। न तुल्यं । कुतः। तेषामिन्द्रियादीनामन्यथानुमानात् । नप्रत्यक्षाणामिन्द्रियादीनामिदन्तया किंचिद् रूपं प्रसाध्यते। येन तुल्यो दोषः स्यात् । किन्तु ज्ञानं कार्यभूतं प्रत्यक्षं केषुचिदालोकादिषु सत्सु व्यतिरेकान्वयवत् । निमीलितलोचनाद्यवस्थासु व्यतिरेकवत्। उन्मीलित'लोचनाद्यवस्थासमन्वयवत् । तदेवंभूतं ज्ञानं कार्यन्तन्मात्रासम्भवं । येषु सत्स्वप्यभवद् दृष्टन्तन्मात्रादसम्भवमनुत्पत्तिमात्मनः साधयति। तद्वयतिरिक्तापेक्षां च। यथा सन्निहितकारणाद् व्यतिरिक्तकारणापेक्षाञ्चं साधयति ।
अस्ति किमपि कारणान्तरमिति। ततो यथोक्तान्वयात् । कार्यद्वारेणेन्द्रियसिद्धिः। कारणान्तरवैकल्यासम्भविनश्चांकुरादयोत्र दृष्टान्तः। नैवं सम्बन्धस्य चक्षुरादिवत्कार्यव्यतिरेकेणानुमानं । विशेषानुमानात् । तथा हि सम्बन्धोस्तीति यदनुमानन्तद्विशेषस्यैवानुमानं ।
तच्चायुक्तं। किं कारणं। तस्यैव सम्बन्धस्यासिद्धौ सत्यान्तत्कार्यस्यैव सम्बन्धकार्यस्यैव ज्ञानस्याभावात्। शब्दार्थो लिङ्गमिति चेदाह। न हीत्यादि। न हि तत्र सम्बन्धविशेषे शब्दरूपमर्थो वा लिङ्ग। किं कारणं (1) तयोः शब्दार्थयोस्सर्वत्र योग्यत्वात् । सर्वस्य शब्दस्य सर्वस्मिन्नर्थे वाचकत्वेन योग्यत्वात् सर्वस्य चार्थस्य सर्वस्मिन् शब्दे वाच्यत्वेन योग्यत्वात् ।। अर्थविशेषप्रतीतेश्च कारणं सम्बन्धविशेषस्तस्य चार्थविशेषप्रतीतिसमाश्रयस्य सम्बन्धस्यानियताभ्यां शब्दार्था
B. कार्यतन्मात्रा०। २B. ०क्तान्न्यायात्। B. सर्वस्य चार्थस्य सर्वस्मिन् शब्दे वाच्यत्वेन योग्यत्वात्-added