________________
७. अपौरुषेय-चिन्ता
४२५
तथा स्यात् । अविवेकादर्शनयोविवेकसत्ता विपर्ययाश्रयत्वात्। अन्यथा तत्स्थितेरभावप्रसङ्गः । तें च अतीन्द्रियत्वात् अप्रतिभासमानेऽपि न दोष इन्द्रियादिवदिति चेत्। ___ न । ततोप्रतिपत्ति प्रसंगात्, अप्रसिद्धस्य च अज्ञापकत्वात्। सन्निधिमा- 491b त्रेण ज्ञापनेऽव्युत्पन्नानामपि स्यात् ।
नानुमानात् प्रतिपत्तिः, लिङ्गाभावात् दृष्टान्तासिद्धेः । तत्रापि इन्द्रियत्वेन
भूतस्यान्यत्त्वाव्यतिक्रमादि"त्यत्रान्तरे। .
स चायं सम्बन्ध ऐन्द्रियः सन् स्वबुद्धौ सम्बन्धालम्बनायां बुद्धौ। तदन्यविवेकेनेति। तस्मात्सम्बन्धादन्यस्सम्बन्धी ततो विवेकेनार्थान्तरेण रूपेणाप्रतिभासमानः कथन्तथा स्यात् तदन्यविवेकि रूपं कथं स्यात् । किं कारणं (1) दृश्यस्य प्रत्यक्षादर्थादविवेकोऽपृथग्भावः (1) यच्चादर्शनन्तयोर्दू श्याविवेकादर्शनयोर्यथाक्रमं विवेकसत्ता विपर्ययाश्रयत्वात्। विवेकविपर्ययो विवेकाभावस्तस्य दृश्याविवेक आश्रयः । सत्ताविपर्ययोसत्त्वन्तस्य दृश्यादर्शनमाश्रयः । तेनायमर्थः (1) यद्यतो भेदेन नोपलभ्यते तत्ततो नान्यत् । यद्यत् २ दृश्यं सन्नोपलभ्यते तन्नास्तीति यावत्।
अन्यथेति। यद्यतोर्थान्तरमभ्युपगतं दृश्यं च तस्य तस्मादविवेके सत्यदर्शने च यदि विवेकः सत्ता च कल्प्यते। तदा तत्स्थितेरविवेकाभावयोर्व्यवस्थितेरभावप्रसङ्गः। तथा हि दृश्याविवेकादर्शने अस्या व्यवस्थाया निमित्ते। ते चेति विवेकाभावयोर्न साधनमिष्टे तदा तद्व्यवस्थोच्छिद्यते। अतीन्द्रियत्वात् सम्बन्धस्य विवेकेन बद्धाववप्रतिभासम्नेपि न यथोक्तदोष इन्द्रियादिवदिति चेत। यथेन्द्रियञ्चक्षरादि रूपादिभ्यो विवेकेन बद्धौ न प्रतिभासतेऽथ च व्यतिरिक्तमस्ति । तद्वत् सम्बन्धो भविष्यतीत्यर्थः
. नेत्या चा र्यः। नातीन्द्रियस्सम्बन्धः । ततोतीन्द्रियात् सम्बन्धादर्थस्याप्रतिपत्तिप्रसङ्गात् । किं कारणं। अप्रसिद्धस्य स्वेन रूपेणानिश्चितस्याज्ञापकत्वात् । न हि येन सह यस्य सम्बन्धो न गृह्यते तद्द्वारेण तस्य प्रतीतिर्युक्ता।
अथाज्ञात एव सम्बन्धोर्थं ज्ञापयतीन्द्रियवदित्याह। सन्निधिमात्रणेत्यादि। सम्बन्धस्य सन्निधिमात्रेण सत्तामात्रेणार्थज्ञापनेभ्युपगम्यमाने शब्दार्थसम्बन्धम्प्रत्यव्यत्पन्नानाम प्यस्यार्थस्यायवाचक इति प्रतिपत्तिः स्यात्।
स्यान्मतम् (।) अस्त्येव सम्बन्धस्य विवेकेनोपलब्धिः। सा तु न प्रत्यक्षात्
'B. ते चेद् ।
B. प्राप्य।
१B. यच्च।
५४