________________
४२४ प्रमाणवार्तिकस्ववृत्तिटीका (१।२३६) मनपेक्ष्य ग्रहणं प्रसज्यतेति । अनपेक्षाऽत्मानुपकारात् । तद् इमे स्वविषयविज्ञानजनने पर अपेक्षमाणाः, ततः स्वभावातिशयं स्वीकुर्वन्ति। तेनास्य ते जन्या एव। ज्ञेयरूपासादनात्तु ज्ञानवशेन कार्यातिशयवाचिना शब्देन विशेषख्यात्यर्थ व्यंग्यमित्युच्यते। नैवं जातिसम्बन्धादयः कथंचिदनुफ्कार्यत्वात् । अनुपकारिणा नैव व्यक्ता युज्यन्ते।
सम्बन्धस्य च वस्तुत्वे स्यागुदाद् बुद्धिचित्रता । स चायं सम्बन्धो वस्तु भवन्नियमेन शब्दार्थाभ्यां भेदाभेदौ नातिवर्त्तते । रूपं हि तस्य स्वभावस्यातत्त्वमेव अन्यत्त्वमित्युक्तं प्राक् ।
स चायं चक्षुर्ग्राह्यः सन् स्वबुद्धौ तदन्यविवेकेन रूपेणाप्रतिभासमानः कथ
क्षेत्यादि। येयं घटादीनामालोकानपेक्षा प्रसक्ता सा आत्मानुपकारात् प्रदीपादिभिर्घटाद्यात्मनोनुपकाराद् व्यतिरिक्तस्य हि सामर्थ्यस्य करणे दुपकारः । तदिति तस्माद् इमे व्यंग्याः स्वविषयज्ञानजनने। परम्प्रदीपादिकमपेक्षमाणाः। तत इति परस्मात स्वभावातिशयं ज्ञानजननयोग्यं स्वरूपं स्वीक र्वन्ति (1) तेन कारणेनास्य प्रदीपादेस्ते व्यंग्याभिमता जन्या एव । यदि जन्या: कस्माद् व्यङग्या इत्येवम्व्यपदिश्यन्त इत्याह। ज्ञेयरूपेत्यादि। व्यञ्जकात् प्रदीपादेस्सकाशाज्ज्ञेयरूपस्य ग्राह्यरूपस्यासादनाल्लाभात्तु कारणादवश्यं तद्विषयं ज्ञानम्भवति (1) अतो ज्ञानवशेन। कार्यातिशयवाचिना। अगृहीतज्ञानं कार्य कार्यातिशयस्तद्वाचिना व्यंग्यादिशब्देन । अनागृहीतज्ञानेभ्यः कार्येम्यो विशेषख्यात्यर्थ । यदावश्यकेणो (? नो) पात्तज्ञानन्तदेव जन्यमपि सद् व्यङ्ग्यमित्युच्यते। यत्तु नैवंभतन्तत्कार्यमेवेत्यच्यत इत्येवं प्रसिद्धयर्थं व्य (ङ) ग्याः ख्याप्यन्त इत्यर्थः। नवं जातिसम्बन्धादय इति। जातिश्च सम्बन्धश्च तावादी येषां। आदिशब्दादन्यस्यापि
नित्याभिमतस्याश्रितस्थ परिग्रहः । कथंचिदाश्रयाभिमतेनानुपकार्यत्वात्। तेनानु152b पकारिणा नैव व्यक्ता यज्यन्त इति सम्बन्धः ।
न च सम्बन्धस्त्रिप्रमाणक इति दर्शयितुमाह। सम्बन्धस्य च वस्तुत्वे सम्बन्धिभ्यां सम्बन्धस्य भेदात् तृतीयः सम्बन्धाख्यो भावो जातः। स च यद्युपलब्धिलक्षणप्राप्तस्तदा पदार्थत्रयालम्बनत्वेन स्याद् बुद्धिचित्रता। स चायं शब्दार्थयोस्सम्बन्धो वस्तु भवन्नियमेन शब्दार्थाभ्यां भेदाभेदौ नातिवर्तते कामति । भेदाभेदव्यतिरिक्तः प्रकारो भविष्यतीति चेदाह ।। रूपं हीति यतो रूपं स्वभावो वस्तु तस्य स्वभावस्यातत्त्वमेवातद्भाव एवान्यत्त्वमित्युक्तं प्राक् । “रूपस्यातद्