________________
७. अपौरुषेय-चिन्ता
४२३ तदुत्पादनयोग्यत्वेनोत्पत्तियक्तिरिष्यते ॥२३७।। घटादिष्वपि युक्तिहरविशेषेऽविकारिणाम् ।
व्यञ्जकैः स्वैः कुतः कोर्थो व्यक्तास्तैस्ते यतो मताः॥२३८॥ सहकारिणः सकाशाद् उपादानापेक्षत्वात् ज्ञानजननंप्रति क्षणान्तरस्योत्पत्तिरेव घटादीनामभिव्यक्तिः । अन्यथाऽनपेक्ष्य तदुपकारं ज्ञानजननप्रसङ्गात् ।
सामर्थ्यकारिणश्च जनकत्वात्', तस्य तदात्मकत्वात्। अर्थान्तरत्वेऽनुपकार- 491a प्रसंगात् । सामर्थ्याच्च ज्ञानोत्पत्तेः घटादीनां नित्यमग्रहणं स्यात् । पालोक
सम्बन्धाद् योग्यदेशावस्थानात् सकाशात् तदुत्पादनयोग्यत्वेन स्वानुरूपज्ञानोत्पादनसामर्थ्येन घटादिष्वपि व्यंग्येषु योत्पत्तिः सैव युक्तिझैायविद्भिर्व्यक्तिरिष्यते। जात्यादीनान्तु व्यङ्ग्यानान्नित्यत्वादविकारिणां व्यञ्जकात्सकाशादविशेषे। ज्ञानोत्पादनयोग्यतानुत्पत्तौ। स्वैर्व्यञ्जकैस्तेषां जा'त्यादीनां कोर्थः क उपकारः I52a कृतः (1) नैव कश्चित् । यतस्ते जात्यादयस्तैर्व्यञ्जकर्व्यक्ता मताः । (२३७)
सहकारिण इत्यादिना व्याचष्टे। सहकारिणः प्रदीपादेः सकाशात् किम्भूतादुपादानापेक्षात् पूर्वको (ज्ञानजननासमर्थो) 1 घटादिलक्षण उपादानकारणं समर्थस्य घटादिलक्षणस्य घटापेक्षत्वात् । स्वविषयज्ञानजननं प्रति योग्यस्य क्षणान्तरस्योत्पत्तिरेव घटादीनामभिव्यक्तिः। अन्यथा यदि प्रदीपादेस्सकाशात् ज्ञानोत्पादनयोग्यतां न लभन्ते घटादयस्तदानपेक्ष्य तदपकारं प्रदीपोपकारं घटादीनां ज्ञानजननप्रसङ्गात्। ___ अथ प्रदीपादिः प्रागसमर्थस्य व्यंग्यस्य सामर्थ्यं करोतीतीष्यते। तदा सामर्थ्यकारिणश्च प्रदीपादेर्घटादीन्प्रति जनकत्वात्। किं कारणं (1) तस्य सामर्थ्यस्य तदात्मकत्वादव्यंग्यात्मकत्वात् । तस्य जनने घटादिरेव जनितः स्यात् । ___ अथ माभूदेष दोष इति प्रदीपादिकृतस्य सामर्थ्यस्य व्यंग्यादर्थान्तरत्वमिष्यते। तदार्थान्तरत्वे च सामर्थ्यस्याभ्युपगम्यमाने। भावस्य घटादेः प्रदीपादिभिरनुपकारप्रसङ्गात्। न ह्यन्यस्मिन् कृतेन्य उपकृतो भवत्यतिप्रसंगात्। यच्च प्रदीपादिकृतं सामर्थ्यमर्थान्तरन्तस्माच्च घटादिज्ञानोत्पत्तेस्सामर्थ्यमेव सर्वकालं गृह्यतेति स्वविषयज्ञानाजननानां घटादीनां नित्यमग्रहणप्रसङ्गात् । इष्यते च घटादीनां ग्रहणात्। तदाप्यनालोकापेक्षग्रहणप्रसंगात्। आलोकमनपेक्ष्य घटादीनाङ्ग्रहणम्प्रसज्यतेत्यर्थः। आलोकानपेक्षैव कथमिति चेदाह। अनपे
1 In the margin.
2 "तदपेक्षत्वात" is missing.