________________
४२२ प्रमाणवात्तिकस्ववृत्तिटीका (१।२३७) । सोऽयं नित्त्यानामपि स्वभावमपरावर्तयन् कुतश्चित् स्वयमुत्प्रेक्ष्य घटयेदिति न च तावता ते च्यवनधर्माणः।
यदुक्तं प्राग्, आश्रयोपायेन प्राश्रितसम्बन्धस्य विनाशात् अनित्य इति । तत्र--
नित्यत्वादाश्रयापायेप्यनाशो यदि सम्मतः।
नित्येष्वाश्रयसामध्ये किं येनेष्टः स श्राश्रयः ॥२३६।। श्रूयते जात्याश्रययोनित्यत्वे प्राश्रयस्य सहविनाशोऽपि नेति । अथ नित्येषु आश्रयसामर्थ्यन पश्यामो, येन अस्य प्राश्रयः स्यात् । कृतस्य करणाभावात्, कारकस्य चानपेक्षत्वात्। प्राश्रयाद् जातेः सम्बन्धस्य च व्यक्तिः उपकाराश्रय इति चेत् ।
ज्ञानोत्पादनहेतूनां संबन्धात् सहकारिणाम् ।
सर्वेषाम्भावानां प्रकृतिभेदेन स्वस्वरूपावस्थानात्। केवलं सोयं पुरुषो नित्यानामपि स्वभावमात्मीयमपरावर्तयन्न सम्बन्धिस्वभावं स्थिरमपनीयान्यं सम्बन्धिस्वभावमनादधत् । कुतश्चिदिति तद्भावे कस्यचिद् भावदर्शनात् । अन्तस्तथाभूतव्यवहारवासनापरिपाकाद्वा। स्वयमुत्प्रेक्ष्येदमिह सम्बन्धमिति घटयेदिति । पुरुषव्यवहाराभ्यासात्तेपि नित्याभिश्मतास्तथा स्युः । पुरुषोपकल्पितसम्बन्धवन्तः स्युः । न च तावता ते पूर्वव्यवस्थितादसम्बन्धिस्वभावा (च) च्यवनधर्माणः । ___ एतदुक्तम्भवति। बुद्धिपरिकल्पितः सम्बन्धस्त्वत्परिकल्पितः सम्बन्धस्त्वत्परिकल्पितेष्वपि नित्येषु न विरुध्यते । तस्मात् स एवाश्रयितुं युक्तो न वास्तव इति । यदुक्तं प्रागाश्रयस्यापायेन कारणेनाश्रितस्य सम्बन्धस्य विनाशादनित्यः सम्बन्ध इति। तत्रैतस्मिन् दूषणे नित्यत्वात् सम्बन्धस्याश्रयापायेप्यनाशो यदि जातिवदित्युच्यते। यथा जातेनित्यत्वादाश्रयनाशेप्यनाशस्तद्वत् सम्बन्धस्येति । (२३५) ____ अत्राप्याह। नित्येष्वाश्रयाभिमतेषु जात्यादिष्वपि कायषु किमाश्रयस्य सामर्थ्यन्नैव। येनेष्टः सोकिञ्चित्कर आश्रयः। श्रूयत इत्यादि विवरणं। श्रूयत इत्यनेन प्रसिद्धिमात्रमेतन्निर्वस्तुकमित्येतदाह (1) व्यक्त्याश्रिता। केवलन्नित्येषु जात्यादि ष्वाश्रयसामर्थ्यमाश्रयकृतमपकारन्न पश्यामो येनासावाश्रयाभिमत आश्रयः स्यात्। किं कारणं (1) कृतस्य सिद्धस्वभावस्य कारणाभावात् । अकारकस्य चाश्रयस्यानपेक्षत्वात्। (२३६)
आश्रयात् सकाशाज्जातेः सम्बन्धस्य च व्यक्तिरभिव्यक्तिरूपस्य म्भ (?तु) योग्यता भवति। सैव चाश्रयकृत उपकारस्तेन कारणेन पदार्थ आश्रय इति चेत् ।
उत्तरमाह। ज्ञानेत्यादि। सहकारिणां ज्ञानोत्पादनहेतूनां प्रदीपादीनां