________________
४२१
७. अपौरुषेय - चिन्ता
उत्पन्नोत्पन्नोऽर्थः सम्बन्धवान् यद्युत्पद्यते, सम्बन्ध उत्पन्नोऽपि न शब्दे स्यात् । तेन सम्बन्धिस्वभावस्य स्वभावविपर्ययमन्तरेण तद्भावायोगात् । श्रर्थेन सहो - त्पन्नस्य अन्यतः सिद्धस्यानुपकारिणि शब्देऽसमाश्रयत्वाच्च ।
तस्यापि तदुत्पत्तिसहकारित्वे समर्थस्य नित्योत्पादनप्रसंग: । अनपेक्षत्वात्, नित्त्यस्यानुप' कारात् । श्रसामर्थ्येऽपि पश्चाद् अशक्तिः स्वभावात्यागात् । सम्बन्धे नायं दोषों विकल्प्यते ॥ २३५ ॥
न हि भावश्लेषापेक्षी पुरुषभावनाप्रतिभासी तदपेक्षालक्षणः सम्बन्धः ।
कल्प्यमाने । न स्वभावविपर्ययः शब्देषु युक्तः । योसौ पश्चादर्थेन सम्बन्ध उत्पद्यते । तत्सम्बन्धिस्वभावता पूर्वन्नास्ति सम्बन्धाभावात् पश्चात्तु भवतीति स्वभावविपर्ययः शब्दानां स्यात् । स च नित्यत्वान्न युज्यते ।
अथेत्यादि व्याख्यानं । पूर्वसम्बन्धिविनाशे विनष्टः सम्बन्धो यस्य शब्दस्य तस्यार्थान्तरे पश्चादुत्पन्ने वैगुण्यं सम्बन्धवैकल्यं तस्माच्चार्थानाम्पश्चादुत्पन्नानामवाच्यता मा भूदिति कृत्वोत्पन्नोत्पन्नोर्थः सम्बन्धवान् अगृहीतसम्बन्ध एव यद्युत्पद्येत । तथापि सम्बन्ध उत्पन्नोपि न शब्दे स्यात् । शब्दस्तेन सम्बन्धेन तद्वान्न स्यात्। किङ्कारणं ( 1 ) तस्य शब्दस्य तेन पश्चादुत्पन्नेन सम्बन्धेनासम्बन्धि स्वभावस्य तद्भावायोगात् । तेन सम्बन्धेन सम्बन्धिस्वभावायोगात् । कदा (1) स्वभावविपर्ययमन्तरेण । पूर्वासम्बन्धिस्वभावत्यागमन्तरेण दोषान्तरमप्याह । अर्थेन सहोत्पन्नस्य च सम्बन्धस्य शब्दादन्यतः सिद्धस्यानुपकारिणि शब्दे तस्यासमाश्रयत्वाच्च । तद्भावायोग एव । ( २३४ )
49ob
अथ तस्यापि शब्दस्य तदुत्पत्तिसहकारित्वे सम्बन्धो ' ( प ) ति प्रति सहका- 151b रित्वे कल्प्यमाने । समर्थस्य शब्दस्य नित्योत्पादनप्रसंग: । सर्वकालं सम्बन्धजननप्रसंगः। किं कारणं ( 1 ) सहकार्य नपेक्षत्वात् । अनपेक्षत्वं पुनर्नित्यस्य शब्दस्य सहकारिभिरनुपकारात् । अथासमर्थः सहकार्यपेक्षया जनयेत् । तदा प्राक्सम्बन्धजननं प्रत्यसामर्थ्येपि पश्चादप्यर्थे सन्निधिकालेप्यशक्तिः । किं कारणं (1) पूर्वासमर्थस्वभावात्यागात् । वस्तुभू-ते सम्बन्धे यो दोषोयम्विकल्पिते बुद्धिसन्दशिते सम्बन्धे नास्ति ।
न हीत्यादि व्याख्यानं । तदपेक्षा तेषाम्भावानां परस्परापेक्षा कुतश्चिन्निमित्ताद् बुद्धिपरिकल्पितात् । तल्लक्षणस्सम्बन्धः पुरुषभावनाप्रतिभासी (1) पुरुषस्य भावनाभ्यासवती विकल्पबुद्धिस्तत्र प्रतिभासितुं शीलमस्येति कृत्वा । स चैवं पौरुषेयस्सम्बन्धो न भावश्लेषापेक्षी । भावश्लेषो मिश्रता तदपेक्षी न भवति