________________
प्रमाणवार्त्तिकस्ववृत्तिटीका ( १।२३५ )
तावेव भावाभावावाश्रित्य श्रसंसृष्टावपि व्यवहार भावनातः संसृष्टपुरुषस्य भात इति पौरुषेयो भावानां संश्लेषः ।
४२०
किं च श्राश्रयविनाशे सम्बन्धविनाशाद्, स वा शब्दः पूर्वेण न योज्यतेऽसम्बन्धिनो यतः । तत्र उत्पन्नोत्पन्नाश्च भावा श्रवाच्याः स्युः असम्बन्धिनो यतः, स्थितसम्बन्धाभावात् । तत्रापि --
अर्थैरेव सहोत्पादे;
श्रकल्प्यमाने ।
स्वभावो विपर्ययः 1
शब्देषु युक्तः;
अथ सम्बन्धिविनाशेऽर्थान्तरेऽभावो प्रर्थानामवाच्यता वा मा भूदिति कृत्वा
एवा भिन्नानां सम्बन्ध इति यावत् ।
यतएवमतः कारणादर्थेः कारणभूतैस्सह कार्यात्मनां शब्दानां सम्बन्धः पुरुषः कर्तृभिर्द्धिया बुद्ध्या संस्कार्यो व्यवस्थाप्यः । अर्थे सति शब्दस्य प्रयोगादस चाप्रयोगात् । अथ भावाभावद्वारेण शब्दस्य यो भावाभावौ तावाश्रित्य बुद्ध्या शब्दार्थयोः सम्बन्धो व्यवस्थाप्यते इति वाक्यार्थः ।
६. एतदेव व्याचष्टे । तावेवेत्यादि । अर्थद्वारेण शब्दस्य यो भावाभावौ तावाश्रित्य स्वभावेनासंसृष्टावपि शब्दार्थावसम्बन्धिनौ संसृष्टौ सम्बद्धौ पुरुषस्य प्रतिभातः । विकल्पबुद्धौ प्रतिभासेते । कुतः ( 1 ) व्यवहार भावनातः । अनादिकालीनव्यवहाराभ्यासतः । इति हेतोः पौरुषेयो भावानां शब्दार्थानां संश्लेषः सम्बन्धः। व्यवहारवासनाबलेनावस्थाप्यमानत्वात ।
७. वस्तुभूतसम्बन्धाभ्युपगमेऽयमपरो दोष इत्याह । किचेत्यादि । वाच्यत्वेनाभिमतस्याश्रयस्य विनाशादविनष्ठे सम्बन्धे । स तस्य वाचकत्वेनाभिमतः शाब्दो सम्बन्धः । नास्य सम्बन्धोस्तीति कृत्वा तदभावस्तस्मादसम्बन्धात् पुनरपूर्वेण वाच्येन न योज्येत । ततश्चोत्पन्नोत्पन्नाश्च भावा अवाच्याः स्युरसम्बन्धिनो यतः । असम्बन्धिन एव कुत: ( 1 ) स्थितसम्बन्धाभावात् । ये य उत्पद्यन्ते तेषु तेषु न तावदुत्पादात् पूर्वं सम्बन्धः स्थितो द्विष्ठस्य तस्य सम्बन्धिनमन्तरेण स्थानायोगात् 14 तत्रापीत्यादि । तत्राप्युत्पन्नोत्पन्नेष्वर्थेषु तैरेवार्थैस्सह सम्बन्धस्योत्पादे
1 In the margin.