________________
४१६
७. अपौरुषेय - चिन्ता
नित्यस्यानुपकार्यत्वादकुर्वाणश्च नाश्रयः ।
यदि जाते 'र्वाच्यत्वाददोष इति चेत् । न । तद्वचने प्रयोजनाभावादिति 4902 निर्लोठितमेतद् । सर्वत्र च जातेरसम्भवात् प्रयोगो यादृच्छिकेषु व्यक्तिवाचिषु । प्रयोगः, सर्वदा जातिचोदने विशेषान्तरव्युदासेन प्रवृत्ययोगाच्च । तस्मादन्वयव्यतिरेकिणोः भावाभाववतो भावस्य एव सम्बन्धः ।
अथैरतः स शब्दानां संस्कार्यः पुरुषैर्धिया || २३४||
तदाश्रयार्थश्च वक्तव्यः । तस्य सम्बन्धस्य सम्बन्धिनौ केनार्थेनाश्रयादित्याश्रयार्थो वाच्यः । उपकारार्थो ह्याश्रयार्थः । स चेह नास्ति (1) किं कारणं (1) नित्यस्य सम्बन्धस्यानुपकार्यत्वादनाधेयातिशयत्वादनुपकुर्वाणश्चाश्रयाभिमतो नाश्रयः
स्यात् ।
(२) स्यादेतद् (1) यदि व्यक्तिर्वाच्या तदा स्यादनन्तरोक्तो दोषः । या - वता नित्याया जातेर्वाच्यत्वाददोषः सम्बन्धिनामपायेन सम्बन्धस्यानित्यतादोषों नास्तीति चेत् ।
नेत्यादिना प्रतिवचनं । तद्वचने जातिवचने प्रयोजनाभावादिति निर्लोठिततदन्यापोह चिन्ता याम् ( ३।५५ )
सर्वत्र अपि प्रवर्त्तत पुमान् विज्ञायार्थक्रियाक्षमान् ( 1 ) इत्यत्रान्तरे । चाभिधाने जातेरसम्भवात् कारणात् । जातिचोदनाया अयोगः । यथा यादृच्छिकेषु व्यक्तिवाचिषु' बाह्यं निमित्तमन्तरेण शब्दप्रयोगेच्छा यदृच्छा । तस्यां भवा यादृच्छिकाः । तेषु देवदत्तादिशब्देषु व्यक्तिवाचिषु । ( २३४ )
५. चतुष्टयी शब्दानां प्रवृत्तिरिति केषांचिद्दर्शनं । जातिशब्दा गुणशब्दाः क्रियाशब्दा यदृच्छाशब्दा इति । तेषां मतेनैतदुक्तं । अथ देवदत्तादिशब्दोप्यवस्थाभेदेन जातिवाचक इष्यते । तदा सर्वदा जातिचोदनेभ्युपगम्यमाने विशेषान्तरव्युदासेन व्यक्त्यन्तरपरित्यागेन क्वचिदभिमते व्यक्त्यन्तरं प्रवृत्ययोगाच्च न जात्यभिधानं । दृष्टा च गोस्वामिना गामानयेत्युक्तेऽन्यस्वामिकगोव्युदासेन विनियता एव गोरानयनार्थम्प्रवृत्तिः सा चैवं स्यात् । यदि प्रकरणादिना गोशब्दो विशेषवृत्तिः स्यात् । न च गोर्थस्यानयनमस्तीति वाक्यार्थप्रतीतिरपि न स्यात् । तस्मान्न सर्वत्र जातिश्चोद्यते । यत एवं वास्तवः सम्बन्धो न संगच्छते प्रकृति- 15 1a भिन्नानां । तस्मादन्वयव्यतिरेकिण इति भावाभाववतो भावस्य कार्योभिमतस्य (1) कारणाभिमतभावाभावद्वारेण यौ भावाभावौ स एव सम्बन्धः जन्यजनकभाव