________________
४१८
प्रमाणवात्तिकस्ववृत्तिटीका (१।२३३)
ख. सम्बन्धचिन्ता अयमेव नित्त्यत्त्वेऽपि दोषः, तस्य स्थिरभावस्य अन्यथाऽयोगात्। समं सर्वस्मिन्नवस्थान इष्ट प्रतिनियमा भावात् । ततो विशेषप्रतीतिर्न स्यादिति पूर्ववत् । प्रसंगः। इच्छावृत्तौ च पौरुषेयत्वमिति विप्रलम्भनशंका। अपि च ।
सम्बन्धिना मनित्यत्वान्न सम्बन्धेस्ति नित्यता ॥२३३।। पराश्रये सम्बन्धिनि अनायत्ततायां तयोः सम्बन्धिताया अयोगात् । स चाश्रयोऽनित्त्यः । अपायेऽस्य सम्बन्धस्याप्यपायः स्यात् । अन्यथा नापैति । तदाश्रयार्थश्च वक्तव्यः।
अनित्यस्य सम्बन्धस्यापुरुषाधीनत्वे योयमनन्तरोक्तो दोषोऽयमेव सम्बन्धस्यानित्यत्वेपि दोषः। किं कारणं (1) तस्य सम्बन्धस्य स्थिरस्वभावस्य देशादिपरावृत्त्या परावृत्त्यायोगादन्यथा त्वस्यायोगात्। आकाशवत् ।
४. क. अथ सर्वेष्वेवार्थेषु सम्बद्धः शब्दः (1) तत्राप्याह। सममित्यादि। सममेककालं सर्वस्मिन्नर्थे सम्बन्धस्यावस्थानेपि कल्प्यमान इष्टो योर्थस्तस्मिन्
प्रतिनियामाभावात् (1) ततः सर्वार्थसाधारणादर्थविशेषस्याभिमतस्य प्रतीतिर्नIsob स्यादिति कृत्वा' अनेकार्थसम्बद्धोपि शब्दः पुरुषसंस्काराद् इष्टार्थनियमं प्रतिपद्यत
इत्यङगीकर्तव्यन्तत्र च पूर्ववत् प्रसंगः । “अनेकार्थाभिसम्बन्धे विरुद्धव्यक्तिसम्भवे" (श२३१) इत्यादिना य उक्तः। एवन्तावन्नित्यत्वे सम्बन्धस्यानित्यत्वेप्यपुरुषाधीनत्वे दोष उक्तः। पुरुषेच्छावृत्तौ च सम्बन्धस्य पौरुषेयत्वमिति कृत्वा विप्रलम्भनशङ्का। विसम्वादहेतोः पुरुषस्याभ्युपगमात् ।
ख. अपि चेत्यादि। तत्रैव दूषणान्तरमाह। द्विविधो हि शब्दानां विषयः साक्षाज्जातिस्तल्लक्षिता च व्यक्तिरिति। (१) तत्र यदि व्यक्त्या सह सम्बन्धस्तत्राह। सम्बन्धिनां वाच्यानामर्थानामनित्यत्वात्। तेषु विनश्यत्सु सम्बन्धस्यापि तदाश्रितस्य विनाश इति न सम्बन्धेस्ति नित्यता। पराश्रय इति परस्सम्बन्धी आश्रयोस्येति कृत्वा । सम्बन्धिनि सम्बन्धस्याप्रतिबन्धे सति तयोः सम्बन्धिनोस्सम्बन्धिताया अयोगात्। न ह्यप्रतिबद्धन केनचित् कश्चित् तद्वान् भवति गौरिवाश्वेन। स चाश्रयः शब्दार्थसम्बन्धस्यानित्योर्थानामनित्यत्वात्। अपाये विनाशेस्याश्रयस्य सम्बन्धस्याप्याश्रितस्यापायः । प्रदीपापाये प्रभाया इव तदाश्रितायाः। अन्यथा यद्याश्रयापायेप्याश्रितो नापतीतीष्यते तदाश्रयाभिमते सम्बन्धो नाश्रितः स्यात् । तत् आश्रयविनाशेविनाशान्न नित्यः सम्बन्धः ।