________________
७. अपौरुषेय-चिन्ता
४१७
ततः प्रतिनियमसंसाध्यं तदन्वयं कथं साधयेयुः। न चायत्ततायास्तस्याः साधकम् ।
असंस्कार्यतया पुंभिः सर्वथा स्यान्निरर्थता ॥२३२॥ संस्कारोपगमे मुख्यं गजस्नाननिभं भवेत् ।
इति संग्रहश्लोकः। अपि च शब्दार्थसम्बन्धो नित्योऽनित्यो वा स्यात् । यदि अनित्यः, पुरुषेच्छाया वृत्तिः प्रवृत्तिर्वा । अपुरुषायत्तत्वे पुरुषाणां यथाभिप्राय देशादीनामन्यथात्वे तत्र प्रतिपादनन्न स्यात् । इच्छायामपि अनायत्तस्य पर्वतादिवत् कदाचिदयोगात् ।
तद्व्यङ्ग्याः। तस्मादुभयथापि नायित्ता न बाह्ये वस्तुनि प्रतिबद्धा वैदिकाः शब्दाः। यतश्च नार्थायत्तास्ततः तस्मात् । इदानीमिति सम्बन्धाभावे। तदन्वयं तस्यार्थस्यान्वयं सद्भावं ते शब्दाः कथं साधयेयः। नैव साधयेयः। किम्भूतं (1) तत्प्रतिनियमसंसाध्यं । तस्मिन् बाह्यर्थे तादात्म्य तदुत्पत्तिभ्यां यः प्रतिनियमः शब्दानां तेन संसाध्यं । बाह्येर्थेऽप्रतिबन्धेन नियमाभावात्। (२३२)
३. उक्तमेवार्थं श्लोकेन संगृह्णाति। असंस्कार्यतयेत्यादि। (१) सर्वथेति। यदि पुरुषरर्थाभिप्रायेण शब्दा न क्रियन्ते नापि संकेत्यन्ते । तदा पुम्भिरसंस्कार्यतया हेतुभूतया वैदिकानां शब्दानान्निरर्थता स्यात्। यस्मात् पुरुषसंस्कारप्रबद्धे शब्दानां सत्त्यार्थत्वमिथ्यार्थत्वे । तेन तदभावान्निरर्थतैव स्यात् । (२) निरर्थतापरिहारार्थं पुनः पुरुषसंस्कारोपगमे क्रियमाणे मिथ्यार्थतापि स्यादिति मुख्यं गज स्ना न मिदम्भवेत् । गजो हि पङ्कापनयनाय स्नात्वा पुनः पङ्केनात्मानमवकिरतीति। नित्योऽनित्यो वा स्यादिति वस्तुनो गत्यन्तराभावात् । (३) पुरुषेच्छावृत्तिः पुरुषेच्छावशादुत्पन्नः स्यादाकुञ्चनादिवत्। अवृत्तिर्वा । नास्य पुरु षेच्छया वृत्तिः। अङ्कुरादिवत् । तत्रानित्या पुरुषाधीनत्वपक्षे देशादिपरावृत्त्या। देशादीनामन्यथात्वेन आदिशब्दात् कालावस्थाग्रहणं । पुरुषाणां यथाभिप्रायमिति येन पुरुषेण यथा प्रतिपादयितुमिष्टन्तथा तेन शब्देन प्रतिपादनन्न स्यादिति सम्बन्धः । किं कारणं (1) पुरुषप्रतिपादनेच्छायां सत्यामप्यनायत्तस्य शब्दस्य कदाचिदयोगात् पुरुषेण नियोक्तुङ कदाचिदप्यशक्यत्वादित्यर्थः। पर्वतादिवत् । यथा पर्वतादयः पुरुषानायत्ताः सत्यामपीच्छायां न यथेष्टं नियोक्तुम्पार्यन्ते (1) तद्वत्। दृष्टश्च देशादिपरावृत्या यथाभिप्राय प्रतिपादनं । तस्मात् पुरुषेष्वनायत्तः सम्बन्ध इति ।
५३