________________
४१६
प्रमाणवात्तिकस्ववृत्तिटीका (१।२३२) च्छाऽविसंवाद इति व्यथैवापौरुषेयता।
वाच्यश्च हेतुर्भिन्नानां सम्बन्धस्य व्यवस्थितेः । बाह्या अर्थाः शब्दस्य न रूपं, नापि शब्दोऽर्थानाम् । येनाभिन्नात्मतया व्यवस्थाभेदेऽपि कृतकानित्यवत् अविनाभाविता स्यात् । 489b नापि शब्दाविवक्षाजन्मानो नाप्यजन्मानो विवक्षा'व्यंग्याः, नार्थायत्ताः।
कार्थनियता इति। स्वभावतश्चैकार्थनियमे। योयम्वैदिकेषु वाक्येषु व्याख्यातॄणां व्याख्याविकल्पश्चापरापरव्याख्याभेदश्च न स्यात्। एकार्थप्रतिनियमात्। भवति च। तस्मात् पौरुषेयवाक्यवन्नकार्थनियता वैदिकाः शब्दा इति।
छ. अथ स्यात् (1) नियत एवार्थे तेषामुपदेश इत्यत आह । उपदेशस्येत्यादि। व्याख्याभेदेन शक्योर्थना नात्वविकल्पो यस्मिन् वैदिके वाक्ये तत्तथोक्तन्तस्मिन् शक्यविकल्पे वैदिके वाक्ये। व्याख्यातॄणां य उपदेशस्तस्येष्टसम्वादो नास्त्ययमपि कदाचित् स्याद् अस्यार्थो (यम)न्यो वेति नियमाभावात्। इति हेतोव्यर्थं वापौ.रुषेयता। तामपि कल्पयित्वा व्यभिचाराशंकाया अनिवृत्तेः ।
ज. यश्च शब्दार्थयोः सम्बन्धमिच्छति तेन वाच्यश्च हेतुः सम्बन्धस्य व्यवस्थितेः। सम्बन्धव्यवस्थायाः। केषाम् (1) भिन्नानां परस्परभिन्नानां शब्दा
र्थानां । (१) न तावच्छब्दार्थयोस्तादात्म्यलक्षणः सम्बन्धः। यस्मादर्था हि बाह्या घटपटादयः शब्दस्य न रूपं न स्वभावः। शब्दरूपत्वे हि घटादीनामभावः स्यात् । नापि शब्दोर्थानां रूपमर्थरूपत्वे हि शब्दरूपताहानिप्रसङ्गात् । येनाभिन्नात्मतयान्तरीयकता स्यात्। अविनाभाविता स्यात् । व्यवस्थाभेदेपीति व्यावृत्तिभेदसमाश्रयेण साध्यसाधनभेदेपि। किमिव। कृतकत्वाऽनित्यत्ववत् । यथा कृतकत्वानित्यत्वयोर्व्यावृत्तिभेदेप्येकात्मतया नान्तरीयकता। तद्वत् ।
(२) तदुत्पत्तिलक्षणोपि सम्बन्धो नास्तीत्याह। नापीत्यादि। एतदाह। Ison तदुत्पत्तिलक्षणो हि शब्दानां सम्बन्धो भवन् विवक्षाप्रतिष्ठितेन चार्थेन स्याद् बाह्येन वा।
(क). न तावदाद्यः पक्षः। यस्मान्नाप्यते वैदिका ध्वनयो विवक्षाजन्मान इष्यन्ते। विवक्षातो जन्म येषामिति विग्रहः। नित्यत्वाभ्युपगमात्। अजन्मानो वा अनुत्पन्ना वा सन्तो नापि विवक्षाव्यङ्ग्याः। नित्यत्वहानिप्रसंगात् । व्यङग्यानामुत्पाद्यत्वादित्युक्तं प्राक् ।
(ख) नापि द्वितीयः पक्ष इत्याह । नार्थायत्ता इति। नापि बाह्यायित्ताः । नित्यत्वादेव।1
. अन्ये त्वेकमेव ग्रन्थं कृत्वा व्याचक्षते। यस्मान्न विवक्षाजन्मानो नापि