SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ७. अपौरुषेय-चिन्ता ४१५ १ सर्वेषां साधनानां साधारणस्य दृष्टव्यक्तिमेव समयकारः करोतीति कुत एतत्। 489a सोऽनियतो नियमं पुरुषात् प्रतिपद्यते । अपौरुषेयतायाश्च व्यर्था स्यात् परिकल्पना ॥२३१॥ अपि नाम प्रसंकीर्णमेवार्थं जानीयामिति पुरुषहेतुकः संकरो व्यक्तः । तत्र यादृशा : पुरुषैः क्वचित् प्रयुक्ताः संकीर्यन्ते, तादृशा अपि सर्वसाधारणास्सन्तः क्वचिदर्थे तैः विनियमिताः। तत्त्वापरिज्ञानात् भावेनैव' (? प्रकृत्यैव) वैदिका नियता इति चेत् नोपदेशमपेक्षेरन्, अन्यथा संकेतेन च न प्रकाशयेयः, व्याख्याविकल्पश्च न स्यात् । उपदेशस्य शक्यविकल्पे उपदेशे सर्वेत्यादि। सर्वेषां साध्यानां कार्याणां यथास्वं यानि साधनानि कारणानि तेषां वाचकत्वेन साधारणस्य तस्य शब्दस्यष्टव्यक्तिमेव विशिष्टसाध्यसाध्यकत्वेनाभिमत एवार्थेभिव्यक्तिं समय कारः करोतीति कुत एतत्। . एतदुक्तम्भवति । य एवार्थो वस्तुस्थित्या स्वर्गसाधनः किन्तत्रैव समयकारेणाग्निहोत्रादिशब्दोभिव्यक्तः किम्वान्यस्मिन्नेव स्वर्गसाधनविरुद्धेर्थे बुद्धिमान्द्यादिति सन्देह एव। स इति शब्दः सर्वस्मिन वाचकत्वेनानियतो नियम क्वचिदर्थे पुरुषात पुरुषसंकेतात् प्रतिपद्यते। स च पुरुषोऽ'विरुद्धप्यर्थे संकेतं कुर्यात् । तथा च न केवलं 140b विरुद्धव्यक्तिसम्भवो यापीयमपौरुषेयता वेदस्येष्टा तस्या व्यर्था स्यात् परिकल्पना। अपि नामेति। कथन्नाम। असंकीर्णमनिष्टेनासंसृष्टं। इष्टमेवार्थमपौरुषेयेभ्यः शब्देभ्यो जानीयामिति कृत्वा संकरस्येष्टानिष्टव्यतिकरस्य हेतुः पुरुषोपाकीणों वहिस्कृ (?ष्कृ )तो वैदिकेभ्यः शब्देभ्यः। तत्रैवमवस्थिते यादृशाः शब्दाः पौरुषेयाभिमताः पुरुषैः क्वचिद् विवक्षितेर्थे प्रयुक्तास्संकीर्यन्तेऽनिष्टाभिधायकत्वसम्भावनया । तादृशा एवापौरुषेयाभिमता अपि शब्दाः सर्वार्थसाधारणास्सन्तः क्वचिदर्थे तैः पुरुषैः समयेन यथेष्टं विनियमिताः। किं कारणं (1) तेषां पुंसान्तत्त्वापरिज्ञानात्। प्रकृत्यैव स्वभावेनैव वैदिकाः शब्दा नियता अभिमतेर्थे (1) ततो न पुरुषसंस्कारकृतो दोष इति चेत् । एवं सत्यर्थप्रकाशने नोपदेशमपेक्षेरन्। अपेक्षन्ते च। स्वतस्तेभ्योर्थप्रतीतेरभावात् । यदि च ते स्वभावत एव प्रतिनियताः स्युस्तदा यत्र क्वचिदर्थे एकदा समिताः पुनः कथंचित ततोन्यथासंकेतेनार्थान्तरं न प्रकाशयेयः। प्रकाशयन्ति च। ततो न प्रकृत्य 1 Restored from Tibetan. 2 Bsgrub. par. byed. pa. 3 Mthonbar-hgyur-pa-gua? Rtogs-par-hgyur-pa. No-bo-ñid-kyis.
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy