________________
४१४
प्रमाणवात्तिकस्ववृत्तिटीका (१।२३१) अस्तु वाऽन्य एव नित्यः सम्बन्धः (1) तेन (1)
गिरामेकार्थनियमे न स्यादर्थान्तरे गतिः ॥ (२३०)। न हि तेन सम्बन्धेनासम्बद्धेर्थेप्रतीतिर्युक्ता। तस्य वैफल्यप्रसंगात्। दृष्टश्वेच्छावशात् कृतसमयः सर्वः सर्वस्य दीपकः।
अनेकार्थाभिसम्बन्धे विरुद्धव्यक्तिसम्भवः ।
अथ मा भूद् दृष्टविरोध इति सर्वे सर्वस्य वाचकाः। तथा न सर्व (:) सर्वसाधनो संकरात् कार्यकारणतायास्तत्र प्रतिनियतसाधनेऽभिमतेऽथे
श्रोतु: कर्तुञ्च सम्बन्धम्वक्ता की प्रतिपद्यते । पूर्वदृष्टो हि यस्तेन तं श्रोतुर्न करोत्यसौ।
. यं करोति नवं सोपि न दृष्टः प्रतिपादक" इति (1) तदपास्तं। सर्वत्र वाच्यवाचकसम्बन्धानाम्भिन्नानामप्येकत्वाध्यवसायेन लोकस्य प्रवृत्तेः (1) न चाप्यनादिता तेषां प्रत्यभिज्ञाया अप्रमाणत्वादिति । (२२६)
ङ. अस्तु वाऽविनाभावसम्बन्धादन्य एव नित्यः शब्दार्थयोस्सम्बन्धः। तेन सम्बन्धेन गिरा शब्दानामें कार्थनियमे सति पुन: समयवशान्न स्यादर्थान्तरे यत्रासौ शब्दो न नियमितस्तत्र गतिः प्रतिपत्तिः। किं कारणं। न हि तेनैकार्थनियतेन सम्बन्धेनासम्बद्धर्थे प्रतीतिर्युक्ता। कस्मात् (1) तस्य सम्बन्धस्य वैफल्यप्रसङ्गात् । न भवत्येव तत्र प्रतीतिरिति (1)
आह। दृष्टश्चेत्यादि। पुरुषेच्छावशात् कृतः समयोस्येति दीपकः प्रकाशकः ।
अनेकेत्यादि। अनेकार्थेन शब्दस्याभिसम्बन्धेभ्युपगम्यमाने यद्येकार्थनियमन समयकारोभिव्यक्तिं करोति। तदाभिमत एवार्थे करोति न त्वन्यस्मिन्नेव विरुद्ध इति नास्ति नियमस्ततो विरुद्धव्यक्तिसम्भवः। अभीष्टाद् विरुद्धस्याप्यर्थस्याभिव्यक्तिः सम्भाव्यते।
अथेत्यादिना व्याचष्टे। एकार्थप्रतिनियमे समयवशादनेकार्थप्रतिपादनं दृष्टं विरुध्यते (1) तस्मात्तस्य दृष्टस्य विरोधो मा भूदिति सर्वे शब्दाः सर्वस्यार्थस्य वाचकाः।
च. तथेत्यादिना विरुद्धव्यक्तिप्रतिपादनं। यथा सर्वे सर्वस्य वाचका इष्यन्ते तथेदमप्यवश्यमेष्टव्यं (1) न च सर्वार्थः सर्वस्य कार्यस्य साधक इति न्यायप्राप्तत्वात्। न्यायं चाह। संकरादिति। प्रतिनियतत्वात् कार्यकारणतायाः। तत्रैतस्मिन न्याये सति प्रतिनियतम्विशिष्टमेव वस्तु साधनं कारणं यस्याभिमत स्यार्थस्य साध्यस्य स्वर्गादेः। तस्मिन् विषयभूते। शब्दस्य किम्विशिष्टस्य (।)