________________
७. अपौरुषेय - चिन्ता
सम्बन्धाग्रहात् (।) न चात्राविनाभाव उपयोगीति (1)
तदपास्तं । अविनाभावमन्तरेण वाच्यवाचकभावस्याभावात् ।
४१३
यदप्युक्तं (1) कथं शब्दादर्थप्रतिपत्तिः । कथं च शाब्दं ज्ञानमनुमानेन्तर्भवतीति । तत्परिहृतं (1)
ख. इदानीं समयप्रयोजनमाह । तदाख्यानमित्यादि । तदाख्यानमविनाभावाख्यानं समयः । आख्यायतेनेनेति कृत्वा । तत इति समयात् प्रत्यायकस्यार्थप्रतिपादनाङ्गस्याविनाभावलक्षणस्य सिद्धेः प्रतीतेः । उपचारेण समयस्य सम्बन्धाख्यानात् सम्बन्धव्यपदेशः । न तु पुनः स एव समयो मुख्यः सम्बन्धः ।
तेन यदुच्यते ।
"समयः प्रति मर्त्यम्वा प्रत्युच्चारणमेव वा ।
क्रियते जगदादौ वा सकृदेकेन केनचिदिति ( 1 ) निरस्तं ।
ग. ननु यद्यविनाभावेन शब्दार्थप्रतीतिस्तदा शब्दस्यार्थप्रतिपादनं वाचकत्वेन न स्यात् । धूमस्येवाग्निप्रतिपादनं । यदि च शब्दार्थयोस्समयेन विना भावाख्यानात् समयस्सम्बन्ध उच्यते। अग्निधूमयोरपि समयः स्यादिति ।
नैष दोषो यस्मात् 15 इममर्थमकृतसमयेनापि शब्देन प्रतिपादयामीत्येवमर्थस्य वाच्यत्वं शब्दस्य च वाचकत्वमारोप्यार्थप्रतिपादनाभिप्राये सति यदा शब्द प्रयुक्ते तदा शब्दस्य वाचक रूपस्यैवोत्पत्तिः ।
घ. नन्वर्थप्रतिपादनाभिप्रायेण वणी एव जन्यन्ते न च वाचका वर्णा इष्यन्ते तत्कथमुच्यतेऽभिप्रायाद् वाचकस्य शब्दस्योत्पत्तिरिति ।
सत्त्यं (1) केवलम्वक्तृश्रोत्रोर्वर्णेष्वेव वाचकाभिमानाद् वाचकस्यैवोत्पत्तिरुच्यते । तस्मादस्यैव वाच्यवाचकभावलक्षणस्याविनाभावस्य शब्दार्थसम्बन्धस्य मूढं प्रति आख्यानं समयस्सम्बन्ध उच्यते । न तु सर्वमेव कार्यकारणभावाख्यानं समय: (1) तेन न धूमादौ सम्बन्धः समय उच्यते । यद्यपि संकेतव्यवहारकालयोः शब्दार्थसम्बन्धस्य भेदस्तथापि सादृश्यादेकत्वाध्यवसायेन लोकस्य प्रवृत्तिः । 149a अत एव च यमेव शब्दार्थसम्बन्धं पूर्वप्रतिपन्नं वक्ता कथयति तमेव श्रोता प्रतिपद्यते । तेन यदुच्यते ॥
"प्रत्येकं स च सम्बन्धो भिद्येतैकोऽथवा भवेत् ।
एकत्वे कृतको न स्याद् भिन्नश्चेद् भेदधीर्भवेत् । ( संबंध ० १४ ) वक्तृश्रोतृधियो भेदाद् व्यवहारश्च ( न ) दुष्यति । वक्तुरन्यो हि सम्बन्धो बुद्धौ श्रोतुस्तथापरः ।