________________
४१२
प्रमाणवात्तिकस्ववृत्तिटीका (१।२३०) नामिश्राणां सिद्धानां कश्चित सम्बन्धोऽभेदप्रसंगात् । अनपेक्षणाच्च । २. सिद्धान्तःसमयस्तहि कथं (1) शब्दार्थसम्बन्धः पुरुषेषु वृत्तेः ।
तदाख्यानं समय (1) ततः प्रत्यायकत्वसिद्धः सम्बन्धाख्यानात्। न तु सम्बन्धः (1)
अर्थविशेषसमीहाप्रेरिता वाग्, अत इदमिति विदुषः स्वनिदानावभासिनमर्थ संचयतीति। बद्धिरूपवागविज्ञप्त्योर्जन्यजनकभावः सम्बन्धः। ततः शब्दात प्रतिपत्तिरविनाभावात् (1)
नुपकारकत्वप्रसंगात्। तदा योग्यतायां च स्वतः स्वरूपेण शब्दस्य योग्यत्वेऽर्थ एव शब्दस्वभावः प्रतीतिजननयोग्यः किन्नेष्यते। कि पारम्पर्येणेति यावत्। तस्मान्न' योग्यता सम्बन्धो न च सार्थप्रतीतिहेतुः। समवायादेवार्थप्रतीतेः। . बौद्धस्यापि तहि समयः कथं शब्दार्थयोस्सम्बन्धः (1) कथं च न स्यात् पुरुषेषु वृत्तेः। अस्यार्थस्यायं वाचक इत्यर्थकथनं स म यः । स च पुरुषेषु वर्त्तते न शब्दार्थयोः। न चान्यधर्मोन्यस्य धर्मोऽश्वधर्म इव गोः।।
(१) आ चा र्य स्तु न केवलं समयो न सम्बन्धोन्योपि भाविक: सम्बन्धो नास्तीत्याह। नेत्यादि। तथा हि भावानां रूपश्लेषो वा सम्बन्ध: स्यात् । पारतन्त्र्यं वा परस्परापेक्षणं वा। तत्रामिश्राणाम्परस्परभिन्नानां न कश्चिद् रूपश्लेषलक्षणस्सम्बन्धः। तेषामभेदप्रसङ्गात्। एकत्वापत्तेः। तथा सिद्धानां
निष्पन्नानां रूपाणां न कश्चित् पारतन्त्र्यलक्षणः सम्बन्धः (1) सिद्धे पारतन्त्र्या18 योगात्। परस्परापेक्षालक्षणोपि सम्बन्धो नास्तीत्याह । अनपेक्षणाच्चेति । सिद्धस्य सर्वनिरपेक्षत्वात् ।
(२) क. यदि तर्हि शब्दार्थयोर्नास्ति सम्बन्धः कथन्तर्हि शब्दार्थप्रतीतिः । कथं च शाब्दं ज्ञानमनुमानेऽन्तर्भाव्यते। समयो वा तदा किंप्रयोजन इति (1)
आह । अर्थविशेषेत्यादि (1) अर्थविशेषो यः प्रतिपादनाभिप्रायेण विषयीकृतः। तस्य समीहा प्रतिपादनेच्छा। तया प्रेरिता जनिता वाक् सूचयति प्रकाशयति स्वनिदानप्रतिभासनमर्थ । वाचः स्वनिदानं प्रतिपादनाभिप्रायः। तत्प्रकाशिनं कस्य सूचयति। अत इदमिति विदुषः । अतः प्रतिपादनाभिप्रायात् सकाशादिदम्वचनमागतमिति यो विद्वान तस्य । इति एवं बुद्धिरूपस्याभिप्रायलक्षणस्य वाग्विज्ञप्तेश्च जन्यजनकलक्षणस्सम्बन्धः। ततः शब्दात् प्रतिपत्तिरविनाभावादिति (1) ततो जन्यजनकभावाद् वाक्यादर्थप्रतिपत्तिः।
तेन यदुक्तं (1) पदादर्थमतिर्यद्यप्यनुमानं वाक्यात्त्वर्थप्रतीतिः प्रमाणान्तरं
जा