SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ७. अपौरुषेय-चिन्ता ४११ नन्वियानसम्बन्धोस्य व्यापारो यदर्थे प्रतीतिजननं तत् समयेनैव कृतमिति। नायोग्ये समयः समर्थ इति। योग्यता सम्बन्धश्चेत् तत्कि वै शब्दः सम्बन्धोस्तु। समर्थ हि रूपं शब्दस्य योग्यता। कार्यकरणयोग्यतावत्। सा चेदर्थान्तरं कि शब्दस्येति सम्बन्धो वाच्यः। योग्यतोपकार इति चेत (1) न (1) नित्यायान्निरतिशयत्वात तत्राप्यतिप्रसंगात। उपकारासिद्धः। योग्यतायां च स्वतो योग्यत्वेऽर्थ एव किन्नेष्यते। सम्बन्धः किमकारणं कस्मान्निष्फलं पोष्यते। (१०) नैष्फल्यमेवाह। नन्वित्यादि। इयानेतावन्मात्र एव। यदर्थे वाच्ये 148a प्रतीतेऑनस्य जननं। तत्प्रतीतिजननं समयेन कृतमिति निष्फलस्सम्बन्धः । नायोग्ये समयस्समर्थः। किन्तर्हि य एवार्थप्रतिपत्यन्यथानुपपत्या प्रतिपादकेन समर्थः प्रतिपन्नः शब्दस्तत्रैव संकेतः समर्थ इति योग्यता सम्बन्धश्चेत् । तदुक्तं । "शक्तिरेव हि सम्बन्धो भेदश्चास्या न दृश्यते। सा हि कार्यानुमेयत्वात् तद्भेदमनुवर्तते” इति ॥ (संबं० २८) । अत्राह। तत्किमित्यादि। एवम्मन्यते। नैका शक्तिः शब्दार्थयोः स्थिता किन्तु शब्दस्था हि वाचकशक्तिरन्यार्थे स्थातुं वाच्यशक्तिरन्यैव। यदा तु शब्दशक्तिः सम्बन्धस्तदा य एव सम्बन्धस्स एव सम्बन्धी प्राप्त इति पृच्छति (1) तत्किम्वै शब्दः सम्बन्धोस्तु । नन्वन्या हि योग्यताऽन्यश्च शब्दस्तत्कथं शब्दस्सम्बन्ध इत्यत आह । यस्मात् समयं हि रूपं शब्दस्यार्थप्रतिपादनं प्रति योग्यता। कार्यकारणयोग्यताश्वत्। कार्यकरणाय योग्यता कार्यकरणयोग्यता। यथा कारणस्यात्मभता। तद्वत् । सा चेदिति योग्यता ततः शब्दादर्थान्तरं तदा किं शब्दस्य भवतीति शब्दयोग्यतयोस्सम्बन्धो वाच्यः । अन्यथा शब्दस्येयं योग्यतेति न सिध्येत् । यार्थान्तरभूता योग्यता तस्यां शब्दस्योपकार इति चेत् । शब्देन योग्यताया उपकारः क्रियत इति यावत् । तेन शब्दजन्यत्वाच्छब्दस्य योग्यतेत्युच्यत इति भावः। न शब्देनोपकारो योग्यतायाः (1) कुतः (1) नित्याया योग्यताया निरतिशयत्वात् । अथ योग्यताया अपि शब्देन व्यतिरिक्त एवोपकारः क्रियते। तदा तस्य शब्दकृतस्योपकारस्य योग्यतया कः सम्बन्ध इति वाच्यं । अथ तत्राप्युपकारे योग्यतयान्य उपकारः क्रियते तदा तत्राप्युपकारे यथोक्तविधिनाऽपरापरस्योपकारस्य कल्पनायामतिप्रसङ्गात् । ततोनवस्थायामुपकारासिद्धः सैव योग्यतया सह शब्दस्य सम्बन्धासिद्धिः। किञ्च व्यतिरिक्तां योग्यतामुपकुर्वाणः शब्दः स्वरूपेणैवोपकरोति न पररूपेण। शब्दस्या
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy