________________
४१०
प्रमाणवार्तिकस्ववृत्तिटीका (१।२३०)
क. अपौरूषेयत्वेऽप्यप्रामाण्यम् सम्बन्धापौरुषेयत्वे स्यात् प्रतीतिरसंविदः ॥२२९।। स्यादेतद् (1) अकार्यसम्बन्धा एव शब्दा न तेर्थेषु पुरुषरन्यथा विपर्यास्यन्ते । तेनादोष इति किमिदानीं संकेतेन। स हि सम्बन्धो यतोर्थप्रतीतिः । नायं समयमपेक्षेत (1) अप्रतीत्याश्रयाः कथं सम्बन्धाः (1)
संकेतात्तदभिव्यक्तावसमर्थान्यकल्पना । न वै सम्बन्धो विद्यमानोप्यनभिव्यक्तिः प्रतीतिहेतुः (1) संकेत (: ख)ल्वेनमभिव्यक्तिमतहि सिद्धोपस्थायी किमकारणं पोष्यते।
तत्राह। सम्बन्धापौरुषेयत्व इत्यादि । शब्दार्थयोस्सम्बन्धापौरुषयत्वेभ्युपगम्यमाने स्यात् प्रतीतिरर्थप्रतिपत्तिरसम्विदः। संकेतज्ञानं सम्वित् । सा न विद्यते यस्य तस्य। अकार्यः पुरुषरजन्यः सम्बन्धो येषान्ते तथा। ते शब्दा अर्थेषु वाच्येषु पुरुषैर्यथार्थप्रकाशकत्वात् । स्वभावादन्यथा विपर्यस्यन्ते वितथज्ञानहेतवो न क्रियन्ते। तेनाविपर्यासेनासेषो विसम्वादलक्षणो दोषो नास्ति। इदानीमिति सम्बन्धापौरुषेयत्वे किं संकेतेन प्रयोजनं । यस्मात् स हि शब्दार्थयोस्सम्बन्धः स चेदर्थप्रतीतिहेतुः सम्बन्धोपौरुषेयस्तदा नायं पुरुषो निसर्गसिद्धसम्बन्धत्वाच्छब्दादर्थं प्रतिपद्यमानः समयमपेक्षेत। प्रदीपादिवत् । अपेक्षते च संकेतन्तस्मान्न शब्दानामर्थेन सहापौरुषेयः सम्बन्धो राजचिह्नादिवत् ।
(E) स्यान्मतम् (1)अपौरुषेय एव सम्बन्धः स तु संकेतनिरपेक्षो प्रतीत्याश्रय इत्याह। अप्रतीत्याश्रयोर्थप्रतीतेरेवाश्रयो वा कथं सम्बन्धः (1) नैव। प्रतीत्यन्यथानुपपत्त्या सम्बन्धकल्पनात् । प्रतीत्यभावे कथं सम्बन्धः। अथ (1)
"ज्ञापकत्वाद्धि सम्बन्धः स्वात्मज्ञानमपेक्षते । तेनासौ विद्यमानोपि नागृहीतः प्रकाशकः । सर्वेषामनभिव्यक्तानां पूर्वपूर्वप्रयोक्तृतः (1)
सिद्धः सम्बन्ध इत्येवं सम्बन्धादिर्न विद्यत इति।" तत्राह। संकेतेत्यादि । संकेतेन तस्य सम्बन्धस्याभिव्यक्तौ। असमर्था निष्फला संकेतादन्यस्य सम्बन्धस्य कल्पना।
एतदुक्तम्भवति। संकेते सत्यर्थप्रतीतेरुत्पत्तिरसति चानुत्पत्तिरित्यन्वयव्यतिरेकाभ्यां संकेत एवार्थप्रतीतेः कारणमिति किं सम्बन्धेनान्येन ।
नेत्यादिना व्याचष्टे । अनभिव्यक्तो प्रकाशितोर्थप्रतीतिहेतुः। एनमिति सम्बन्ध स तौति सम्बन्धः। संकेतादेवार्थप्रतिपादने सिद्ध सति उपस्थातुं शीलं यस्य स