________________
७. अपौरुषेय-चिन्ता
४०६ गिरामपौरुषेयत्वेष्यतो मिथ्यात्वसम्भवः । किं ह्यस्यापौरुषेयतया (1) यतो हि समयावर्थप्रतिपत्तिः। स पौरुषेयो । वितथोपि स्यात्। शीलं साधनं स्वर्गवचनम् (1) अन्यथा समयेन विपर्यासयेत् (1) तेनायथार्थमपि प्रकाशनसंभवात्।
स एव दोषः (1)
न यथार्थमवश्यम्वर्त्तत इति गिरामपौरुषेयत्वेभ्युपगम्यमाने। अतः · पुरुषेच्छानुरोधिनः संकेतात् मिथ्यात्वसम्भवः ।
(७) किमित्यादि विवरणं। अस्येति वेदस्य यतो हि समयात संकेतादर्थप्रतीतिरर्थप्रकाशनं स समयः पौरुषेयस्ततो वितथोप्यलीकोपि स्यात्। स्वातन्त्र्यात् । ततश्च शीलं साधनं हेतुर्यस्य स्वर्गस्य। तथाभूतश्चासौ स्वर्गश्च सुमेरुपृष्ठलक्षणस्तस्य यद्वेदे वचनन्तदन्यथा समये 'न विपर्यासयेत् । निरतिशया प्रीतिः स्वर्ग इत्ये वम्विपरीतार्थ कुर्यादग्निहोत्रादिसाधनेन च विपरीतार्थं कुर्यात्तेन कारणेनायथार्थमपि प्रकाशनसम्भवात् (1)
स एव दोषो यः पौरुषेयेषूक्तः (।) पुरुषदोषात् सम्भाव्यविप्रलम्भः पौरुषेय इति। (२२८)
(८) नन्वपौरुषेय एव शब्दार्थयोः सम्बन्धः । तथा हि यथेदानीन्तना वृद्धाः7 147b पूर्वप्रसिद्धमेव शब्दार्थसम्बन्धमुपदिशन्ति। तथा पूर्वपूर्ववृद्धा अपीत्यनादित्वाद- . पौरुषेय एव सम्बन्धः। तदुक्तं।
"शब्दार्थानादितां मुक्त्वा सम्बन्धानादिकारणं।
अस्ति नान्यदतो वेदे सम्बन्धादिर्न विद्यत" इति । स च सम्बन्धस्त्रिप्रमाणक :। तथा हि (1) श्रोतुरर्थप्रतिपत्तये केनचिद् वृद्धेन शब्दे प्रयुक्तेऽन्यः पार्श्वस्थः प्रतिपत्ता प्रयोक्तारम्वाच्यं वाचकं प्रत्यक्षेण प्रतिपद्यते। श्रोतुश्च प्रतिपन्नत्वं प्रवृत्तिद्वारेणावगच्छति। अर्थप्रतिपत्त्यन्यथानुपपत्त्या च शब्दार्थाश्रिता वाच्यवाचकशक्तिं चावगच्छतीति त्रिप्रमाणक एव सम्बन्धः । तदुक्तं ।।
"शब्द (न्)ि वृद्धामिधेयांश्च प्रत्यक्षेणात्र पश्यति । श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया ॥ अन्यथानुपपत्या च बुद्धयेच्छक्ति द्वयाश्रितां अर्थापत्त्या च बुध्यन्ते सम्बन्धन्त्रि प्रमाणकमिति ।"
1 Slokavartika.
५२